SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ N5A5V A कर्त्ता, तेषामेव सुकृतदुष्कृतानां फलमुपभोक्ता, कर्मानुसारेण नारकादिगतिषु संसर्त्ता, कर्म्मणामात्यन्तिकक्षयं विधाय परिनिर्वाता च स एव जीवो नान्यः । यदुक्तम् - " यः कर्त्ता कर्म्मभेदानां भोक्ता कर्म्मफलस्य च । संसर्त्ता परिनिर्वाता सामा नान्यलक्षणः ” ॥ १ ॥ अथवा ' चैतन्यलक्षणो जीवः ' इति वचनात् सुखदुःखाद्यनुभवज्ञानात्मको जीवः सर्वैश्शेमुषीवद्भि॥ २ ॥ ॐ स्सुतरां प्रतीयते । अथात्र कश्चिदारकते, ज्ञानरूपञ्चैतन्यरूपो वा जीवश्चेत् अनवरतमेव कस्मात् सोऽर्थान् न पश्यति, जानानं हि ज्ञानमुच्यते, ज्ञानं च न जानीते विप्रतिषिद्धमिदम्, जीवश्च ज्ञानरूपोऽतः सर्वदा तेन जानानेनैव भवितव्यम् न कदाचिदन्यथा, विज्ञानात्मके जीवे कस्मात् पूर्वोपलब्धार्थविषयं विस्मरणमविनष्टज्ञानस्य सतोऽस्य भवति १, किं वा कारणमात्मनः अव्यक्तबोधत्त्वे, ज्ञानं नाऽव्यक्तमिष्यते, उपलब्धिस्वरूपत्वाच्च ज्ञानस्य, चैतन्यपर्यायज्ञानात्मकत्त्वादात्मनो न जातुचिच्छङ्कितेन भवितव्यम्, लोकालोकवर्त्ति निःशेषद्रव्यपर्यायज्ञातृत्त्वेनाऽवश्यं भाव्यमात्मना प्रतिसमयमिति । अत्रोच्यते; ज्ञानात्मत्वे सत्यपि जीवस्य सर्वस्मिन्नपि वस्तुनि न निरन्तरोपयोगप्रसङ्गः, कथं ? भवाद्भवान्तरं संसरणशीलोऽयमात्मा कर्मवशात् प्रदेशाष्टकमपहाय सर्वप्रदेशेषु ज्वलनज्वालाकलापोपरिष्टाद्वर्त्तमानघटान्तर्गतनीरवच्चलः कृकलाशवत्सततमेवार्थान्तरेषु परिणामी चिरेणैकस्मिन् द्रव्ये पर्याये वा कथमुपयुज्येत ?, स्वभावादेव च भवस्थजन्तूनां उपयोगस्थितिरन्तर्मुहूर्त्तप्रमाणोत्कृष्टतः, इत्यादिहेतुभ्यो ज्ञानावारककर्म्मपटलाच्छादितत्त्वान्न सर्वदावैति चैतन्यलक्षणोऽप्ययं जीवः । यथा प्रकाशमयत्वेऽपि सविता निविडघनघटाभिभृतमूर्त्तिर्न प्रकाशते स्पष्टं तथाऽयमात्मेत्यवगन्तव्यम् । स्मृतिरपि अत एव नाऽवश्यंभाविनी जायते तस्य कर्मावृतात्मनः, अव्यक्तबोध - संशयाऽ - सर्वद्रव्यपर्यायज्ञानानि च आवरणशीलज्ञाना श्रीनवतत्त्व- 25 सुमङ्गला टीकायां T A T SUN55 G फ्र जीव लक्षणम्. ॥२॥
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy