________________
Z
卐
<
>
<
दर्शनं प्रधानतया त एव तीर्थकरगणधरा उररीचक्रुः, यतो नहि सम्यग्दर्शनं विना ज्ञानचारित्रे स्वेष्टकार्य प्रसाधयतः, सम्यक्त्वमूलके एव ज्ञानचारित्रे मोक्षं प्रति अवन्ध्यकारणे, उक्तश्चाहत्प्रवचनसंग्रहे तत्त्वार्थाधिगमसूत्रसम्बन्धकारिकायां परमकारुणिकैः पाठकप्रवरैरुमास्वातिसूरिवरैः;-" सम्यगदर्शनशुद्धं यो ज्ञानं विरतिमेव चामोति । दुःखनिमित्तमपीदं तेन सुलब्धं भवति जन्म ॥१॥" सम्यग्दर्शनस्य तत्त्वार्थश्रद्धानात्मकत्वात् कानि तत्त्वानि किंनामधेयानि किंस्वरूपाणि च ? इत्यन्तेवासिजिज्ञासामाकलय्य तत्त्वप्रतिपादिकामिमां प्रथमां गाथां वस्तुसंकीर्तनात्मकमङ्गलस्वरूपां च ग्रन्थकारस्तावदाहःजीवाऽजीवापुण्णं, पावासवसंवरो य निजरणा । बंधो मुक्खो य तहा, नवतत्ता हुंति नायवा ॥१॥
टीका-'जीवेति'-जीवः, अजीवः, पुण्यं, पापं, आश्रवः, संवरः, निर्जरा, बन्धः, मोक्षश्चैतानि नवसंख्यात्मकानि तत्त्वानि ज्ञातव्यानि भवन्ति, हेयज्ञेयोपादेयतया विविच्य निवृत्तिप्रवृत्तिरूपेण भजनीयानि सुप्रसिद्धानि च जिनमते इति गाथाक्षरार्थः॥ अथ विस्तरेण प्रत्येकं तत्त्वं विवियते, तत्र तावदादी जीवतत्त्वम् , ननु जीव इति कः पदार्थः ? इत्याशङ्कायामुच्यते, 'जीव प्राणधारणे' इति भौवादिको धातुः, जीवंति स्वस्वयोग्यतया इन्द्रियप्रभृतिप्राणान् धारयन्तीति जीवाः। प्राणाश्च द्रव्यभावभेदाद् द्विधा, तत्र द्रव्यप्राणा-दशप्रकाराः पणिदिये तिगाथायां वक्ष्यमाणाःभावसंज्ञकाःप्राणाश्चानन्तज्ञानदर्शनचारित्रवीर्यात्मकाश्चतुःप्रकाराः, तत्र ये संसारस्था जीवास्ते वक्ष्यमाणेन्द्रियादिप्राणान् यथायोग विभ्रति, ये च दग्धसकलकर्मेन्धना अनन्ताप्रतिमज्ञानदर्शनशालिनो मुक्तिसौख्यभाजस्सिद्धास्ते तु पूर्वोक्तान् चतुरो भावाभिधान् प्राणान् धारयन्ति, इति प्राणधारणात्मकं जीवस्य लक्षणम् ।। अथवा व्यवहारनयेन यस्तथाविधाऽध्यवसायवशतः शुभाऽशुभानां कर्मणां
yz50)<-
>