SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ 32 टीकाकार मङ्गल श्रीनवतत्त्वसुमङ्गलाटीकायां॥१॥ पीठिकादि. ><3 >卐- वन्दारुजनमन्दारं वृन्दारकनिषेवितम् । भव्याम्भोजविवस्वन्तं, वन्देऽहं गणिगौतमम् ॥३॥ सदयहृदयकान्तं पूज्यमानं सुभव्य-थितललितपयैर्वर्ण्यमानं कवीन्द्रः॥ जिनचरणसरोजे सर्वदैकाग्रचित्तं, विजयकमलसूरिं संस्तुवे प्रीतिपूर्वम् ॥४॥ येनाऽज्ञानतमो ममेन्दुसदृशस्फूर्जत्सुबोधांशुभि-स्तं यश्च विपश्चिदीशनिकरेणाऽसंस्तुतः सद्धिया। बाल्येऽपि प्रजिगाय मोहनृपतिं कल्याणकल्पद्रुम, भो भव्याःप्रणमन्तु तं बुधवरं सूरीश्वरं मोहनम् ॥५॥ क बुद्धिलेशो मम बिन्दुतुल्यः, केदं च शास्त्रं जलधीशमानम् । तथापि गीतार्थगुरुप्रतापात् सुमङ्गलानावि सुसंस्थितोऽहम् ॥ १॥ ___इह हि नारकतिर्यड्नरामरगतिस्कन्धस्य, गर्भनिषेककललार्बुदमांसपेश्यादिजन्मजरामरणशाखस्य, दारिद्याद्यनेकव्यसनोपनिपातपत्रगहनस्य, प्रियविप्रयोगाऽप्रियसंप्रयोगार्थनाशाऽनेकव्याधिशतपुष्पोपचितस्य, शारीरमानसोपचिततीव्रतरदुःखोपनिपातफलस्य संसारतरोरून्मूलने तीक्ष्णकुठारकल्पा अहमहमिकावनम्रनिःशेषसुराऽसुरनिकरा अमितपुण्यप्राग्भारा सकलजगजंतुजातामितैकान्तहितानुशासिनस्त्रिभुवनभवनाभोगभासिनः प्रध्वस्ताऽशस्ततिमिरनिकराः सर्वज्ञदिवाकरा जैनेन्द्रप्रवचने सम्यग्दर्शनज्ञानचारित्राणि अवन्ध्यमोक्षफलप्रापकत्वेन प्रोचुः । तत्रापि त्रिकमध्ये तत्त्वार्थश्रद्धानात्मकं सम्यग १ जलधीनामीशः स्वयंभूरमण इति । - < >
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy