________________
>yz
>卐<
॥ॐ नमोऽर्हत्परमेश्वराय॥ श्रीसिद्धार्थपार्थिवकुलगगनाङ्गणगभस्तिमालिज्ञातनन्दनश्रीमहावीरक्रमकमलाभ्यां नमोनमः ॥ त्रिभुवनभर्तृश्रीमजिनपतिगदितानवद्यनिःश्रेयसाध्वप्रदर्शक-परमकारुणिक-निरवद्यचारित्रशालि
पूज्यपादारविन्द-१००८ जैनाचार्यश्रीमद्विजयमोहनसूरीश्वरेभ्यो नमः ॥ ॥श्रीनवतत्त्वप्रकरणं सुमङ्गलाटीकासमलंकृतम् ॥
10卐yszyo卐
-
-
॥ श्रीशंखेश्वरपार्श्वनाथाय नमोनमः ॥ ऐन्द्रालिप्रणताय दोषविगमान्निःशेषसत्संविदे, संसाराब्धिनिमजतामसुमतां पोतायमानाय च । कल्याणैकनिकेतनाय जगतीवन्दारुकर्मच्छिदे, त्रैलोक्यैकसुरद्रुमाय सततं स्याद्वादिने नो नमः॥१॥ श्रीसिद्धार्थप्रगुणदयितानन्दनं चारुतन्त्रं, आपत्कोटीविघटनपटुं संपदाकृष्टिमन्त्रम् । श्रेयोवल्लीवनजलघरं तत्त्वधीसौधदीपं, भव्याऽब्जार्क मधुमतिधवं नन्नमामीशवीरम् ॥२॥ १ अर्हते इत्यर्थः ।
F