SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ निखिला अपि प्रतिबुद्धाः । क्षीणाऽष्टकर्मा कपिलश्च मोक्षं ययौ इति स्वयम्बुद्धसिद्धकपिलकेवलिकथानकम् ॥ अथाऽवशेषान् सिद्धभेदानाहतहबुद्धबोहि गुरुबोहिया इगसमय इगसिद्धा य। इगसमयेऽवि अणेगा, सिद्धा तेऽणेग सिद्धा ये॥५९॥ टीका-'तह' इति, तथा बुद्धबोधितसिद्धा गुरुबोधिताः, गुरूपदेशेन प्रबुद्धा ये मोक्षं ययाविति ते बुद्धबोधितसिद्धा जम्बूस्वामिप्रमुखाः । एकस्मिन् समये ये एकत्त्वसंख्यायुक्तास्ते एकसिद्धाः श्रीवीरस्वामिन इव । एकस्मिन् समये ये अनेकत्त्वसंख्यायुताः सिध्यन्ति ते अनेकसिद्धाः श्रीऋषभदेवाद्या इति । गाथायां अन्तिमेन 'सिद्धपदेन अन्त्यमङ्गलमाचष्टे ग्रन्थकारः। इत्येवं सिद्धभेदा लेशतो व्याख्याताः। Yamrapmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm समाप्तश्च प्रकीर्णकाधिकारः तस्मिंश्च समाप्ने सम्पूर्णोऽयं ग्रन्थः । शिवमस्तु सर्वजगतः परिहितनिरता भवन्तु भूतगणाः। दोषाः प्रयान्तु नाशं सर्वत्र सुखीभवन्तु लोकाः ॥१॥ هاوشها ونعومرم: مونامونو عوف وعمان وش نضافه १ कासुचित् प्रतिषु षष्टितमा गाथा दृश्यते, तत्र कचिदियम्-' जइआइ होइ पुच्छा, जिणाण मग्गम्मि उत्तरं तइया । इक्कस्स निगोयस्सऽणतभागो य सिद्धि गओ ॥६०॥ कचिच्चेयम्-'इय नवतत्तवियारो, अप्पमइनाणजाणणाहे । संखित्तो उद्धरिओ, लिहिओ सिरिधम्मसूरिहिं ।। ६०॥' इत्युभयथापि दर्शन जायत इति । उभयोरपि गाथार्थस्सुगमः ॥ २९
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy