________________
श्रीनवतचसुमङ्गलाटीकायां॥१२॥
बन्धतत्वे बन्धप्रत्ययाः॥
अभिग्रहेणेदमेव दर्शनं शोभनं नान्यदित्येवंरूपेण कुदर्शनविषयेण निवृत्तमाभिग्रहिकं यदशाबोटिकादिदर्शनानामन्यतमं गृह्णाति। तद्विपरीतमनाभिग्रहिकं, यदशात्सर्वाण्यपि दर्शनानि शोभनानीत्येवमीषन्माध्यस्थ्यमुपजायते। आमिनिवेशिकं यदभिनिवेशेन निर्वृत्तं यथा गोष्ठामाहिलादीनाम् । सांशयिकं यत्संशयेन निर्वृत्तं यद्वशाद्भगवदर्हदुपदिष्टेष्वपि जीवाजीवादितत्त्वेषु:संशय उपजायते | यथा न जाने किमिदं भगवदुक्तं धाऽस्तिकायादि सत्यमुताऽन्यथेति। अनाभोगं यदनाभोगेन निर्वृत्तं तच्चैकेन्द्रियादीनामिति।। हिंसाद्यव्रतेभ्यो मनोवाकायैः कृतकारितानुमतिभिर्यद्विरमणं सा विरतिः, म विरतिः अविरतिः, असंयम इति यावत् । सा चाविरति दिशप्रकारा, तद्यथा-मनः पञ्चेन्द्रियाणि च,तेषां षण्णां स्वस्वविषये प्रवर्त्तमानानामनियमनम् , तथा पृथिव्यप्तेजोवायुवनस्पतित्रसरूपाणां पदप्रकारकजीवानां हिंसा । कषाय-नोकषायमेदाभ्यां कषायः पञ्चविंशतिविधः,तत्र कषायोऽनन्तानुबन्ध्यप्रत्याख्यानावरणीयप्रत्याख्यानावरणीयसवलनभेदभिन्नः क्रोधमानमायालोमलक्षणः षोडशप्रकारः, स्त्रीवेदपुरुषवेदनपुंसकवेदहास्यरत्यरति-| शोकभयजुगुप्सारूपो नोकषायो नवधा कषायसहचरितत्त्वादुपचारेण कषाय इत्युच्यते । मनोवाकायव्यापारलक्षणो योगः, स च पञ्चदशविधस्तद्यथा-सत्यमनोयोगः, असत्यमनोयोगः, सत्यासत्यमनोयोगः, असत्याऽमृषामनोयोगश्च, सत्यवाग्योगः, असत्यवाग्योगः, सत्यासत्यवाग्योगः, असत्यामृषावाग्योगः, औदारिककाययोगः, औदारिकमिश्रकाययोगः, वैक्रियकाययोगः, वैक्रियमिश्रकाययोगः, आहारककाययोगः, आहारकमिश्रकाययोगः, कार्मणयोगश्चेति पञ्चदशविधो योगः। सर्वे मिलिताश्च सप्तपञ्चाशद्वन्धप्रत्ययाः। एते च प्रत्ययाश्चतुर्दशसु गुणस्थानेषु न सर्वे सर्वत्र भवन्ति किन्तु केचिदेव क्वचिद्भवन्तीति तद्भाव्यतेमिथ्यादृष्टावाहारकाहारकमिश्रलक्षणद्विकोनाः पञ्चपञ्चाशद्वन्धहेतवो भवन्ति, आहारकद्विकवर्जनं तु 'संयमवतां तदुदयो |
Isl॥१२०॥