SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ z卐卐> 卐 नान्यस्येति' वचनात् सास्वादने मिथ्यात्वपञ्चकेन विना पंचाशद्वन्धहेतवो भवन्ति । औदारिकमिश्रवैक्रियमिश्रकार्मणाऽनन्तानुबन्धिचतुष्कं विना मिश्रे त्रिचत्वारिंशद्वन्धहेतव उक्ताः, 'न सम्ममिच्छो कुणइ कालं' इति वचनात् सम्यग्मिथ्यादृष्टेः परलोकगमनाभावादौदारिकमिश्रवैक्रियमिश्रकार्मणयोगानामसम्भवः, अनन्तानुवन्ध्युदयस्य चाऽस्य निषिद्धत्त्वादनन्तानुबन्धिचतुष्टयश नास्ति, अतः पूर्वोक्तपश्चाशत्संख्यायाः सप्तानामपहारः। अविरतसम्यग्दृष्टौ तस्य परलोकगमनसम्भवात् पूर्वापनीतमौदारिकमिश्रवैक्रियमिश्रकार्मणलक्षणत्रिकं त्रिचत्वारिंशति पुनः प्रक्षिप्यते, अतः षट्चत्त्वारिंशद्वन्धप्रत्ययाः।देशविरते एकोनचत्वारिंशद्धन्धहेतवः, तत्कथमित्याह;-विग्रहगतावपर्याप्ताऽवस्थायाश्च देशविरतेरभावात्कार्मणौदारिकमिश्रद्वयं न सम्भवति, प्रसाऽसंयमाद्विरतत्त्वात्रसाविरतिर्न जाघटीति । ननु त्रसासंयमात् सङ्कल्पजादेवासौ विरतो न त्वारम्भजादपि तत्कथमसौ त्रसाविरतिः सर्वाप्यपनीयते ? सत्यं, किन्तु गृहिणामशक्यपरिहारत्वेन सत्यप्यारम्भजा प्रसाऽविरतिर्न विवक्षितेत्यदोषः, बृहच्छतकेऽप्येवमेव परिभावितमिति । तथाऽप्रत्याख्यानावरणोदयस्य निषिद्धत्वादस्मिन् गुणस्थानके प्रत्याख्यानावरणचतुष्टयं न घटां प्राश्चति, तत एते सप्त पूर्वोक्तायाः षट्चत्वारिंशतोऽपनीयन्त इति देशविरते एकोनचत्वारिंशद्वन्धहेतवः । तथा प्रमत्ते पइविंशतिबन्धहेतवः, इदमत्र हृदयम्-प्रमत्तगुणस्थाने एकादशधाविरतिः प्रत्याख्यानावरणचतुष्टयश्च न सम्भवति, आहारकद्विकं च भवति, ततः पूर्वोक्ताया एकोनचत्वारिंशतः पश्चदशकेऽपनीते द्विके च तत्र प्रक्षिप्से प्रमत्ते पविशतिबन्धप्रत्ययास्सञ्जायन्ते । तथाऽप्रमत्तस्य लब्ध्यनुपजीवनेनाहारकमिश्रवैक्रियमिश्रलक्षणद्विकरहिता सैव षड्विंशतिश्चतुर्विशतिर्बन्धहेतवोऽप्रमत्ते भवन्ति । 03454z905-5 卐卐-卐>卐 २१
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy