________________
<9 9z
>
पयइ सहावो वुत्तो, ठिई कालावहारणं ॥ अणुभागो रसो यो, पएसो दलसंचओ ॥३९॥
टीका;-'पयइ ' इति, प्रकृतिः स्वभावस्स्यात् , स्थितिः कालनियमनम् , अनुभागो रसो ज्ञेयः, प्रदेशो दलसञ्चयस्स्यादिति गाथाक्षरार्थः। विस्तरार्थस्त्वयम्-चन्धो नाम कार्मणवर्गणाऽन्तःपातिकर्मपुद्गलानामात्मप्रदेशानाश्च क्षीरनीरवद्वययापिण्डवद्वाऽन्योऽन्याऽनुगमात्मकोऽभेदलक्षणो यः सम्बन्धः स बन्धः । ननूक्तलक्षणस्सम्बन्धः किं सप्रत्यय उताज्यत्ययः ? इति चेदुच्यते-नाऽकारणा कार्यनिष्पत्तिरिति न्यायाद् यथा वीजादिकारणादकरकार्यस्य प्रसवो दृष्टस्तद्वद्वक्ष्यमाणमिथ्यादर्शनादिकारणादुक्तलक्षणबन्धकार्य सञ्जायते । मिथ्यादर्शनम् , अविरतिः, कषायाः, योगाश्चेति चतुर्विधबन्धप्रत्ययैरष्टविधस्सप्तविधष्पइविध एकविधबन्धो वा भवति । यद्यपि 'मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः' इति तत्त्वार्थवचनात् प्रमादापेक्षया बन्धप्रत्ययस्य पञ्चविधत्त्वम् , तथापि 'इन्द्रियदोषान्मोक्षमार्गादरशैथिल्यम् , अथवा प्रचुरकर्मेन्धनप्रभवनिरन्तराविध्यातशारीरमानसाऽनेकदुःखहुतवहज्वालाकलापपरीतमशेषमेव संसारवासगृहं पश्यन् तन्मध्यवर्त्यपि सति च तन्निर्गमनोपाये वीतरागप्रणीतधर्मचिन्तामणौ यतो विचित्रकर्मोदयसाचिव्यजनितात्परिणामविशेषादपश्यन्निव तद्भयमविगणय्य विशिष्टपरलोकक्रियाविमुख एवाऽऽस्ते जीवः स खलु प्रमादः, किंवा विकथादिव्यग्रचेतस्कत्त्व-स्मृतिभ्रंशत्व-आगमविहितक्रियानुष्ठानेष्वनुत्साहव-दुष्टयोगप्रणिधानचादिलक्षणः प्रमादः' इति प्रमादस्य व्याख्यया कषाययोगेष्वन्तर्भावत्वात्प्रमादस्य बन्धप्रत्ययस्य चातुर्विध्ये पञ्चविधत्त्वे वा न कश्चिद्विसंवादः । पूर्वोक्ता मिथ्यादर्शनादयः प्रत्ययाः पुनरनेकभेदभिन्नाः, तद्यथा-तत्र मिथ्यादर्शनं तत्त्वार्थाऽश्रद्धानलक्षणं, एतचाऽऽभिग्रहिकाऽऽनामिग्रहिकाऽऽमिनिवेशिकसांशयिकाऽनाभोगिकप्रकारैः पञ्चविधम् ।
>卐<9-卐>卐-
>yyyyzyyycy.