________________
मानवतत्त्वसुमङ्गलाटीकायां
<>5z
बन्धतत्वप्रारम्भः॥
KHERWASNA
॥११९॥
अथ बन्धतत्त्वम्
-卐>
i0555525054-5
-卐>
यज्ज्ञानस्य फलं महोदयपदावाप्तावलं कारण, यस्याऽऽराधनतः प्रयान्ति निखिला दोषा असत्कर्मजाः। यच्चाशेषभवाटवीभ्रमणसंक्लेशार्दितानां नृणां, विश्रामप्रदपादपं च चरणं भव्यैः समाराध्यताम् ॥१॥
सप्तमे तत्त्वे लक्षणभेदाभ्यां निर्जरां व्याख्याय 'बन्धाऽविनाभाविनी निर्जरा' इति विज्ञायोद्देशकमायातमष्टमं बन्धतत्त्वं प्रक्रमते, तत्र निर्जराप्रारम्भे 'बारसविहं' इति गाथायां 'बंधो चउविगप्पो य, पयइडिइ अणुभाग-पएसमेएहिं नायवो' इति पदेन प्रकृतिस्थित्यनुभावप्रदेशभेदैर्वन्धश्चतुर्विकल्पो ज्ञातव्य इत्युक्तम् । अथ किंलक्षणा प्रकृतिः किंलक्षणा स्थितिः किंस्वरूपोऽनुभागः किंरूपाच प्रदेशा इति प्रतिपिपादयिषुराचार्यः सूत्रं निर्मिमीते;
i>卐<