________________
0
iz卐
श्रीनवतत्त्व सुमङ्गलाटीकायां
संवरतत्त्वे सामायि
कादि चारित्रम्॥
॥९८॥
>55-55-卐>卐
'धम्मस्स साहगा अरहा' दुर्गतिपतितप्राणिसार्थस्य समुद्धरणात्सुगतिस्थापनाच्च धर्मः श्रुतचारित्रभेदभिन्नः, तस्य साधको निष्पादकः कथको वेति, स च 'अर्हन् ' इति अष्टमहाप्रातिहार्यपूजायाः सुरासुरेन्द्रविरचिताया अर्हत्त्वादर्हन् , स चोपलक्षणं गणधरादीनाम् , यदुक्तं " तिथयरगणहरो, केवलिव्व पत्तेयबुद्धपुव्वधरो । पंचविहायारधरो दुल्लंभो आयरियओवि" ॥१॥ अहो सम्यग्दर्शनद्वारः पञ्चमहाव्रतसाधनः द्वादशाङ्गोपदिष्टतत्त्वो गुप्त्यादिविशुद्धव्यवस्थानः संसारनिर्वाहको निःश्रेयसप्रापको धमों भगवता परमर्षिणाऽर्हता व्याख्यातः स्वयमनुष्ठितश्चेत्येवमनुचिन्तयेत् । एवं हि चिन्तयतोऽस्य धर्मबहुमानं तदनुष्ठाने च व्यवस्थानं जायते इति द्वादशी भावना ॥१२॥ 'एयाओ भावणाओ, भावेयवा पयत्तेण' इति, एता अनन्तरोदितस्वरूपा अनित्यादिभावना मोक्षमार्गाभिलापुकैव्यात्मभिः प्रमादादिदस्युपरिहारेण भावितव्या आत्मनि ध्येयविषयीकर्तव्या इत्यर्थः ॥३०-३१॥ भावना वर्णयित्त्वाऽथ क्रमागतं सामायिकादिभेदभिन्नं चारित्रद्वारं गाथायुगलेन विवर्णयिषुः सूत्रकारगाथायुगलमुपनिबध्नाति;सामाइयत्त्थपढम, छेओवठ्ठावणं भवे बीअं। परिहारविसुद्धीअं, सुहुमं तह संपरायं च ॥ ३२॥ तत्तो अअहक्खायं, खायं सवमि जीवलोगम्मि । जंचरिऊण सुविहिया, वच्चंति अयरामरं ठाणं॥३३॥
टीका-प्रथमं सामायिकचारित्रम् , द्वितीयं छेदोपस्थापनीयम् , तृतीयं परिहारविशुद्धिकं, तथा चतुर्थ सूक्ष्मसंपरायचारित्रम् । ततो यदाराध्य सुविहिताः साधवोऽजरामरं मोक्षं स्थानं गच्छन्ति तत् सर्वजीवलोके प्रसिद्धं यथाख्यातचारित्रं पञ्चममिति गाथाद्वयाऽक्षरार्थः ॥ व्यासार्थस्त्वेवम् समानां ज्ञानदर्शनचारित्राणामायो लाभः समायः, समाय एव सामा
5<卐z卐09552
॥ ९८॥