________________
क
U
55
V
वात्, क्रीडासाध्यायाश्च प्रीतेस्तेषां शाश्वतिकत्वात्, क्रीडानिमित्तायां तु प्रीतौ तेषां पूर्वमतृप्तप्रसङ्गः । कृपया प्रवृत्तिरािं. तिचेत् संख्येव सस्स्यात् न दुःखी, कर्म्माऽपेक्षः सुखदुःखमयः सर्ग इति चेत् तर्हि कम्मैव कारणमस्तु कर्म्मापेक्षत्वे तेषां स्वातन्त्र्यविघातः । कर्म्मजन्ये च भावानां वैचित्र्ये किमीश्वरादिभिः प्रयोजनम् ? अथ प्रयोजनमन्तरेणैव तेषां सर्गक्रमस्तद्वयुक्तं, न बालोऽपि प्रयोजनमन्तरेण किञ्चित्करोति, तस्मान्न केनचिदयं लोको निष्पादित इति । न च केनचिदयं धियते, शेष्पकूर्म- M वराहादयस्तस्य धारका इति चेत्तेषामपि किं धारकमिति वाच्यं, आकाशमिति चेत् तस्याऽपि किं धारकं ? स्वप्रतिष्ठम् मेवेदमिति चेत् लोकोऽपि तथाऽस्तु एवं च सति केनचिदनुत्पादितत्वात्स्वयंसिद्धः, केनचिदधृतत्त्वान्निराधारः, आकाशे एव प्रति- A ष्ठित इत्यर्थः ॥ ननु लोकभावनाया भावनात्त्वं कथं भवेत् ? उच्यते, इतेोऽपि निर्ममत्त्वं स्यात् तद्यथा - " सुखहेतौ क्वचिद्भावे, मनो रज्यन्मुहुर्मुहुः । लोकभावनयाऽत्यर्थं विप्रकीर्णं विधीयते ॥ १ ॥ भूद्वीपसागरादीनि धर्मध्यानस्य गोचरः । इत्युक्तं ध्यानशतके नर्त्ते तल्लोकभावनाम् ॥ २ ॥ जिनोक्ते लोकरूपे च स्वादिनि विनिश्चिते । अतीन्द्रिये मोक्षमार्गेऽथवाधत्ते प्रत्ययं जनः " ॥ ३ ॥ इति लोकस्वभावभावना ॥ १० ॥
5
A
--
‘बोही दुल्लहा' इति, बोधिः प्रेत्य जिनधर्म्माऽवाप्तिः, दुर्लभा दुष्प्राप, अनादौ संसारे नरकादिषु तेषु भवग्रहणेष्वानन्तकृत्त्वः परिवर्त्तमानस्य जन्तोर्विविधदुःखाभिहतस्य मिध्यादर्शनाद्युपहतमर्ज्ञानदर्शनावरणमोहान्तरायोदयाभिभूतस्य सम्म्यग्दर्शनादिविशुद्धो बोधिर्दुर्लभो भवतीत्यनुचिन्तयेत् । एवं ह्यस्य बोधिदुर्लभचमनुचिन्तयतो बोधिं प्राप्य प्रमादो न भक्ातीति बोधिदुर्लभत्त्वानुप्रेक्षा ॥ ११ ॥
| N
G
L
S
A