________________
<B>37
-5
लवणोदः समुद्रः। लवणोदधिपरिक्षेपी तद्विगुणो धातकीखण्डः। धातकीखण्डपरिक्षेपी अष्टयोजनलक्षविष्कम्भः कालोदः समुद्रः। कालोदपरिक्षेपी तद्विगुणविस्तारः पुष्करवरद्वीपः, तदधं यावन्मानुषं क्षेत्रम् । ततः परं मानुषोत्तरो नाम पर्वतो मानुषलोकपरिक्षेपी महानगरप्राकारवृत्तः पुष्करवरद्वीपाधविनिविष्टः काञ्चनमयः सप्तदशयोजनशतान्येकविंशत्युच्छ्रितः चत्वारि योजनशतानि त्रिंशानि क्रोशं चाधो धरणितलमवगाढो योजनसहस्रं द्वाविंशमधस्ताद्विस्तृतः सप्तयोजनशतानि त्रयोविंशानि मध्ये चत्वारि योजनशतानि चतुर्विंशान्युपरि । न कदाचिदस्मात्परतो मनुष्या जायन्ते म्रियन्ते वा । येऽपि चारणविद्याधरर्द्धिप्राप्ता मनुष्यास्तमल्लङ्घ्य परतोगतास्तेऽपि तत्र न म्रियन्ते । अतएव मानुषोत्तर इत्युच्यते । न च तत्परो बादराऽग्निमेघविद्युन्नदीकालपरिवेषादयः। मानुषोत्तरादाक् पुनर्जन्मतो मनुष्या पश्चचत्वारिंशत्क्षेत्रेषु सान्तरद्वीपेषु भवन्ति, संहरणविद्यार्द्धयोगात्तु सर्वेष्वर्धतृतीयेषु द्वीपेषु समेदिशिखरेषु समुद्रद्वये चेति ॥
मानुषोत्तरात्परतस्तु पुष्करवरद्वीपस्या द्वितीयम् । पुष्करवरद्वीपात् परतस्तत्परिक्षेपी द्वीपद्विगुणविस्तारः पुष्करोदः समुद्रः, ततो वारुणिवरद्वीपसमुद्रौ, क्षीरवरद्वीपसमुद्रौ, घृतवरद्वीपसमुद्रौ, इक्षुवरद्वीपसमुद्रौ च भवतः । अष्टमो नन्दीश्वरद्वीपः, स च चतुरशीतिलक्षोपेतत्रिषष्टिकोट्यधिकयोजनकोटिशतप्रमाणवलयविष्कम्भो विविधविन्यासोद्यानवान् देवलोकप्रतिस्पर्धी जिनेन्द्रपूजाव्यापृतदेवसंपातातिरुचिरः स्वेच्छाविविधक्रियादेवसंभोगरम्यः। नन्दीश्वरद्वीपरिक्षेपी नन्दीश्वरः समुद्रः, ततः परमरुणो द्वीपः अरुणोदः समुद्रः, ततोऽरुणवरो द्वीपः, अरुणवरः समुद्रः, ततोऽरुणभासो द्वीपः, अरुणभासः समुद्रः, ततः कुण्डलो द्वीपः कुण्डलोदः समुद्रः, ततो रुचको द्वीपः, रुचक: समुद्रः, एवं प्रशस्तनामानो द्विगुणमाना द्वीपसमुद्राः, अन्त्यः स्वयंभूरमणः
<s-3
yz09-धर
>