________________
z
श्रीनवतत्त्व सुमङ्गलाटीकायां
लोक
॥९६॥
> y
- ><3-卐3
समुद्रः॥ तथा जम्बूद्वीपे जघन्येन चत्वारस्तीर्थकृतः चक्रवर्त्तिनो बलदेवा वासुदेवाश्च सदा भवन्ति । उत्कर्षेण चतुस्विंशजिनाः संवरतत्त्वे त्रिंशच चक्रिणः । धातकीखण्डे पुष्करार्धे च द्विगुणाः॥ तिर्यग्लोकाचं नवयोजनशतोनसप्तरज्जुप्रमाण ऊर्ध्वलोकः । तत्र सौधर्मेशानसनत्कुमारमाहेन्द्रब्रह्मलोकलान्तकमहाँशुक्र
माहन्द्रब्रह्मालाकलान्तकमहाशुक्र IMभावना॥ सहस्रारानंतीणतारणाच्युता द्वादश कल्पाः, तदुपरि नव ग्रैवेयकाः, तदुपरि विजयवैजयन्तजयन्तापराजितानि विमानानि प्राक्क्रमात् , मध्ये सर्वार्थसिद्धम् । तदुपरि द्वादशयोजनेषु पञ्चचत्वारिंशद्योजनलक्षायामविष्कम्भा ईपत्प्रागभारा नाम पृथ्वी, सा सिद्धशिला, ततोऽप्युपरि गव्यूतत्रयादूर्ध्वं चतुर्थगव्यूतषष्ठभागे आलोकान्तात् सिद्धाः । तत्र धरणितलात् समभागात् सौधर्मेशानौ यावत् सार्धरज्जुः । सनत्कुमारमाहेन्द्रौ यावत् साधं रज्जुद्वयं, सहस्रारं यात्। पश्च रज्जवः, अच्युतं यावत् षट् रज्जवः, लोकान्तं यावत् सप्तरजवः ।। तत्र प्रथमौ कल्पौ घनोदधिप्रतिष्ठानौ, तदुपरित्रयो वायुप्रतिष्ठानाः, ततः परं त्रयो घनोदधिधनवातप्रतिष्ठानाः, तदुपर्याकाशप्रतिष्ठानाः। एवमयमधस्तिर्यगूर्ध्वमेदो लोकः, अस्य च मध्ये रज्जुप्रमाणाऽऽयामविष्कम्भा ऊर्ध्वाधश्चतुदेशरज्वात्मिका त्रसनाडी, त्रसाः स्थावराश्च जीवा अत्र भवन्तीति कृत्वा, सनाड्या बहिः स्थावरा एव जीवा मवन्तीति ।।
चतुर्दशरज्जुप्रमाणोऽयं लोकः उच्छ्रयेन विज्ञेयः, अन्यथा अधस्ताद्देशोनसप्तरज्जुविस्तरः, तिर्यगलोकमध्ये एकरज्जुविस्तरः, ब्रह्मलोकमध्ये पश्चरज्जुविस्तीर्णः उपरि तु लोकान्ते एकरज्जुविस्तृतः, शेषस्थानेष्वनियतविस्तरः, अयं लोकः मतिपरिकल्पनया घनीक्रियते तदा आयामविष्कम्भबाहल्यैः सप्तरज्जुप्रमाणः । कथं च घनो विधीयते इति जिज्ञासा लोकप्रकाशशतकादिभ्यः पूरणीया । अत्र तु प्रसङ्गसङ्गतेराकृतय एव प्रदर्श्यन्ते, ताश्चेमाः
॥९६॥