SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ < भीनवतत्त्वसुमङ्गलाटीकायां संवरतत्वे लोकभावना॥ > < तेभ्य ऊर्ध्व पञ्चयोजनशतविस्तारं मेखलायां वलयाकृति नन्दनवनं, ततः सार्धद्विषष्टियोजनसहस्रेभ्य ऊर्ध्व द्वितीयमेखलायां पञ्चयोजनशतविस्तारं वलयाकृति सौमनसं वनं, ततोऽपि षट्त्रिंशद्योजनसहस्रेभ्य ऊर्ध्व तृतीयमेखलायां चतुर्नवत्यधिकचतुयोजनशतविस्तारं वलयाकृति मेरोः शिरसि पाण्डकवनम् ॥ जम्बूद्वीपे सप्तवर्षाणि, तत्र दक्षिणतो भरतक्षेत्र, तदुत्तरतो हैमवतं, ततोऽपि हरिवर्ष, ततोऽपि विदेहाः ततोऽपि रम्यक क्षेत्रम, ततोऽपि हैरण्यवतं, ततोऽप्यरावतमिति । क्षेत्रविभागकारिणस्तु हिमवन्महाहिमवन्निषधनीलरुक्मिशिखरिणो वर्षधरपर्वताः । तत्र भरते गङ्गासिन्धू महानद्यौ, हैमवते रोहितांशारोहिते, हरिवर्षे हरिकान्ताहरिते, महाविदेहे शीताशीतोदे, रम्यके नारीनरकान्ते, हैरण्यवते सुवर्णकूलारूप्यकुले, ऐरवते रक्तारक्तोदे । प्रथमाः पूर्वगा द्वितीयाः पश्चिमगाः, तत्र चतुर्दशनदीसहस्रपरिवृते प्रत्येकं गङ्गासिन्धू , यथोत्तरं द्विगुणनदीपरिवृते द्वे द्वे नद्यौ शीताशीतोदाभ्यामर्वाक्, ते तु प्रत्येकं द्वात्रिंशत्सहस्राधिकपश्चलक्षनदीपरिवृते । उत्तरास्तु दक्षिणाभिस्तुल्याः। भरतक्षेत्रं विष्कम्भतः पश्चयोजनशतानि पड्विंशानि एकोनविंशतिभागीकृतस्य योजनस्य षड्भागाः, तद्विगुणविष्कम्भा यथोत्तरं वर्षधरवर्षा विदेहान्ताः । उत्तरा दक्षिणतुल्याः । जम्बूद्वीपस्य प्राकारभूता वज्रमयी अष्टयोजनोच्छाया जगती, द्वादशयोजनान्यस्या मूले विष्कम्भः, मध्येऽष्टौ योजनानि, उपरि चत्वारि योजनानि, तदुपरि द्विगव्यत्युच्छायो जालकटको विद्याधरक्रीडास्थानम् । तस्याप्युपरि पद्मवरवेदिका देवभोगभूमिः । अस्याश्च जगत्याः पूर्वादिषु दिक्ष विजयवैजयन्तजयन्ताऽपराजिताऽऽख्यानि चत्वारि द्वाराणि ॥ तथा जम्बूद्वीपपरिक्षेपी तद्विगुणविस्तारः योजनसहस्रावगाढो मध्ये दशसहस्रविस्तारे पोडशयोजनसहस्रोच्छायशिखरो -S< - > ९५n <
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy