________________
92359-
चन्द्रविमानम् , अष्टचत्वारिंशद्भागाः सूर्यविमानं, ग्रहाणामर्धयोजनं, नक्षत्राणां गव्यूतं, आयुषा सर्वोत्कृष्टायास्ताराया अर्धक्रोशः, सर्वजघन्यायाः पञ्चधनु शतानि, बाहल्यं तु सर्वेषामायामस्यार्धम् । एते च पञ्चचत्वारिंशल्लक्षयोजनप्रमिते मनुष्यक्षेत्रे भवन्ति । चन्द्रादिविमानवाहनानि च पुरतः सिंहाः, दक्षिणतो गजाः, अपरतो वृषभाः, उत्तरतोऽश्वाः। ते चाभियोगिकदेवाश्चन्द्रसूर्ययोः प्रत्येकं षोडशसहस्राणि भवन्ति, ग्रहाणामष्टौ, नक्षत्राणां चत्वारि, तारकाणां द्वे, ते च स्वयमेव प्रवृत्तगतीनामपि चन्द्रादीनामाभियोग्यकर्मवशात्तत्रोपतिष्ठन्ति । मानुषोत्तरात् परतः पश्चार्शता योजनसहौः परस्परमन्तरिताः सूर्यान्तरिताश्चन्द्राः चन्द्रान्तरिताः सूर्याः मनुष्यक्षेत्रीयचन्द्रसूर्यप्रमाणादर्धप्रमाणा यथोत्तर क्षेत्रपरिधिवृद्धथा संख्यया वर्धमानाः शुभलेश्या ग्रहनक्षत्रतारापरिवारा घण्टाकारा असंख्येया आस्वयंभूरमणाल्लक्षयोजनान्तरिताभिः पतिभिस्तिष्ठन्तीति ।
मध्यलोके तु जम्बूद्वीपलवणादयः शुभनामानो द्वीपसमुद्रा असङ्ख्याता द्विगुणद्विगुणविस्ताराः पूर्वपूर्वपरिक्षेपिणो वलयाकृतयः प्रथमो जम्बूद्वीपः, अन्त्यः स्वयम्भृरमणसमुद्रः, जम्बूद्वीपमध्ये मेरुः काञ्चनस्थालमिव वृत्तो योजनसहस्रमधो धरणितलमवगादो, नवनवतियोजनसहस्रमुच्छूतो दशयोजनसहस्राणि सातिरेकनवत्यधिकानि कन्दे विस्तृतो, धरणितले दशयोजनसहस्राणि विस्तृतः उपरि योजनसहस्रविस्तृतः, त्रिकाण्डः, त्रिलोकव्यवस्थितः, चतुर्भिवनैर्भद्रशालनन्दनसौमनसपाण्डुकैः परिवृतः। तत्र शुद्धपृथिव्युपलवज्रशर्कराबहुलं योजनसहस्रमेकं प्रथमं काण्ड, द्वितीयं त्रिषष्टिर्योजनसहस्राणि रजतजातरूपाङ्कस्फटिकबहुलं, तृतीयं षट्त्रिंशद्योजनसहस्राणि जाम्बूनदबहुलं, वैडूर्यबहुलाऽस्य चूलिका चचारिंशद्योजनानि उच्छ्रयेण, मूले द्वादशविष्कम्भेण, मध्येऽष्टी, उपरि चत्वारीति । मेरोमूलभूमौ वलयाकृति भद्रशालवनं, भद्रशालवनात् पश्चभ्यो योजनश
10525s2055-5
-