SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ NAA55A55V5 श्रीनवतत्त्व - सुमङ्गलाटीकायां- v ॥ ९४ ॥ T T A रितनयोजनसहस्रस्याध उपरि च योजनशतं मुक्त्वा मध्येऽष्टासु योजनशतेष्वष्टविधानां पिशाचभूतयक्षराक्षस किन्नरकिम्पुरुषमहोरगगन्धर्वाणां कदम्बवृक्षसुलसवृक्षवटवृक्षखद्वाङ्गाऽशोकवृक्षचम्पकवृक्षनागवृक्षतुम्बरुवृक्षचिन्हानां तिर्यग्लोकवासिनां व्यन्तराणां नगराणि तेष्वपि दक्षिणोत्तरदिग्व्यवस्थितेषु द्वौ द्वाविन्द्रौ सर्वसंख्यया षोडश । रत्नप्रभायामेव प्रथमस्य शतस्याध उपरि च दशदश योजनानि मुक्त्वा मध्येऽशीतौ योजनेषु ' अणपनिअ पणपनिअ ' प्रभृतयस्तथैव दक्षिणोत्तरदिग्व्यवस्थिता अष्टौ व्यन्तरनिकायाः, तथैव द्वौ द्वाविन्द्रौ । तथा रत्नप्रभायाः पृथिव्याः समर्तलादुपरि सप्तसु नवत्यधिकेषु योजनशतेषु ज्योतिषामधस्तलप्रदेशः, तदुपरि दशयोजनेषु सूर्यः, तदुपर्यशीतियोजनेषु चन्द्रः तदुपरि विंशतियोजनेषु तारा ग्रहाच, एवमयं ज्योतिर्लोको दशोत्तरं योजनशतं बाहल्येन, एकादशभिर्योजनशतैरेकविंशत्युत्तरैर्जम्बूद्वीपस्थ मेरुमस्पृशन् सर्वासु दिक्षु मण्डलिकया व्यवस्थितं ज्योतिश्चक्रं ध्रुववअं भ्राम्यति, लोकान्तं च एकादशभिर्योजनशतैरेकादशोत्तरैरस्पृशन् मण्डलिकया तिष्ठति । अत्र सर्वोपरि किल स्वातिनक्षत्रम्, सर्वेषामधो भरणिनक्षत्रम्, सर्वदक्षिणो मूलः सर्वोत्तरश्चाभीचिः। तत्र जम्बूद्वीपे द्वौ चन्द्रौ द्वौ सूर्यौ, लवणसमुद्रे चत्वारश्चन्द्राः सूर्याश्च धातकीखण्डे द्वादशचन्द्राः सूर्याश्च, कालोदे द्विचत्वारिंशच्चन्द्रा सूर्याश्च, पुष्करव राधे द्वासप्ततिश्चन्द्राः सूर्याश्च, एवं मनुष्यलोके द्वात्रिंशंचन्द्रशतं सूर्यशतं च भवति, अष्टाशीतिर्ग्रहाः अष्टाविंशतिर्नक्षत्राणि षट्षष्टिसहस्राणि नवशतोत्तरपञ्चसप्तत्यधिकानि कोटाकोटीप्रमाणानि तारकाणि चैकैकस्य चन्द्रमसः परिग्रहः । तत्र एकषष्टिभागीकृतस्य योजनस्य षट्पञ्चाशद्भागा आयामविष्कम्भाभ्यां १ मेरुमध्यगताष्टरुचकप्रदेशाऽपराभिधानसमभूतला पृथ्वी तदेव समतलम् ॥ A N G . A L संवरतत्वे लोक भावना ॥ ॥ ९४ ॥
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy