SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ 12435-5<5529<y चिन्तयन् कर्मनिर्जरणायैव घटत इति नवमी निर्जराऽनुप्रेक्षा ॥९॥ लोगसहावो' इति लोक्यते दृश्यते केवलज्ञानचक्षुषा तीर्थकरादिभिरिति लोकः पञ्चाऽस्तिकायाऽऽत्मकः । तदक्तं:'धर्मादीनां वृत्तिद्रव्याणां यत्र भवति तत्क्षेत्रम् । तैर्द्रव्यैस्सह लोकस्तद्विपरीतं बलोकाऽऽख्यम् ॥१॥ कटिस्थकरवैशाखसंस्थान उत्पत्तिस्थितिव्ययाऽऽत्मक पञ्चाऽस्तिकायमय ऊर्ध्वाधस्तिर्यग्मेदभिन्नश्चतुर्दशरज्जुप्रमाणो लोकः । तत्र किचिदनसतरज्जुप्रमाण ऊर्ध्वलोकः, किश्चित्साधिकसप्तरज्जुमानोऽधोलोकः, अष्टादशयोजनप्रमितस्तिर्यग्लोकः, मल्लकसमुद्गकाकृतिरूवलोकः, अधोमुखमल्लकसंस्थानोऽधो लोकः, स्थालाऽऽकारस्तिर्यग्लोकः, इह चोर्ध्वाऽधस्तियगंलोकव्यवस्था मेरुमध्यगतो |धोऽष्टरुचकप्रदेशापेक्षया बोद्धव्या, यदाहु:-" अट्ठपएसोरुयगो तिरियलोगम्मि मज्झयारंमि । एस पहवो दिसाणं. एसेव भवे अणुदिसाणं" ॥१॥ तत्र रुचकादुपरि अधश्च नव नव योजनशतानि तिर्यग्लोक इत्युत्सेधेऽष्टादशयोजनप्रमाणः, तिर्यगलोकादधो नवयोजनशतोनसप्तरज्जुप्रमाणोऽधो लोकः, तत्र रत्नप्रभाशर्कराप्रभावालुकाप्रभापङ्कप्रभाधूमप्रभातमःप्रभातमस्तमप्रभाख्यगोत्राऽभिधानाः घा-वंशा-शैलाऽञ्जमा-रिष्टा-मघा-माघवती-संज्ञाः सप्तपृथिव्यः घनोदधिधनवाततनवाताऽऽकाशवलयपरिवेष्टिताः । तत्र रत्नप्रभायां पृथिव्यामशीतिसहस्राधिकयोजनलक्षवाहल्यायामुपर्यधश्च योजनसहस्रं मुक्त्वा मध्येऽष्टसप्ततिसहस्राधिके योजनलक्षे भवनपतीनां भवनानि, ते चाऽसुर-नाग-विद्युत्-सुपर्णाऽग्नि-वार्त-स्तैनितोदधि-द्वीप-दिकमाराः चूडामणि-फणि-वज्र-गरुड-घटाऽश्व-वर्धमान मकर-सिंह-हस्ति-चिन्हाः दक्षिणोत्तरदिग्व्यवस्थिताः प्रतिनिकायदक्षिणोत्तरदिग्विभागमाश्रित्य इन्द्र यापेक्षया इन्द्रविंशतिस्वामित्वसमलंकृताश्चेति । अस्यामेव रत्नप्रभायामुप 59935925055-5
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy