SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ 3 भीनवतचसुमङ्गलाटीकायां संवरतत्त्वे भावनाः॥ 3 > ॥९३॥ < विनिपातमृच्छन्ति । तथा रसनेन्द्रिप्रसक्ताः मांसपेशीलुब्धश्येनवत् बडिशामिषगृद्धमत्स्यवद् हेमन्तोद्भवशीतघनीभृतघृतकुम्भप्रविष्टमूषकवद् विनिपातं प्रयान्ति । तथा घ्राणेन्द्रियप्रसक्ता औषधिगन्धलुब्धपन्नगवत् पुष्पपरागरक्तमधुकरवनिधनं यान्ति । तथा चक्षुरिन्द्रियप्रसक्ताः स्त्रीदर्शनप्रसङ्गादर्जुनकचोरवद् दीपाऽऽलोकलोलपतङ्गवद्विनिपातमृच्छन्ति । तथा श्रोत्रेन्द्रियप्रसक्ता गीतसंगीतध्वनिलोलमृगवद् विनिपातं गच्छन्ति । एवं हि चिन्तयन्नास्रवनिरोधाय घटत इत्यास्रवाऽनुप्रेक्षा । उक्तश्च'मनोवाकायकर्माणि योगाः कर्मशुभाऽशुभम् । यदाश्रवन्ति जन्तूनामाश्रवास्तेन कीर्त्तिताः' ॥१॥७॥'संवरो' इति व्याख्यायमानलक्षणो जन्मजरामरणक्लेशादिनिबन्धनपापपटलोपार्जननिवारणहेतुायमानः संवरः, सर्वे ह्येते आस्रवदोषाः संघृताऽऽत्मनो न भवन्तीति चिन्तयेत् , एवश्च संवरायैव मतिर्घटत इति संवरभावना, उक्तञ्च;-' एवमाश्रवनिरोधकारणं संवरः प्रकटितः प्रपञ्चतः । भावनागणशिरोमणिस्त्वयं भावनीय इह भव्यजन्तुभिः॥१॥८॥' तह णिजराणवमी' इति, तथा निर्जरा नवमी भावना, द्वादशभावनानां मध्ये संवरभावनां यावदष्टभावनाः प्राक् प्रकीर्तिता इयश्च नवमी निर्जरा भावनेत्यर्थः । निर्जरा वेदना विपाक इति पर्यायाः, तत्र निर्जरणं निर्जरा आत्मप्रदेशेभ्योऽनुभूतरसकम्मेपुद्गलपरिशाटः, सा निर्जरा द्वेधा, सकामनिर्जरा अकामनिर्जरा च, तत्र 'निर्जरा मे भृयाद्' इत्याभिलाषेण युक्ता सकामा, न पुनरिहलोकपरलोकफलादिकामेन युक्ता, तस्याः ‘नो इह लोगट्ठयाए तवमहिट्ठिजा' इत्यादिना निषिद्धत्वात् , सा च सकामनिर्जरा यतीनां विज्ञेया, ते हि निर्जरापरमकारणं तपः कर्मक्षर्यार्थ तप्यन्ते । अन्या तु कर्मक्षयलक्षणफलनिरपेक्षा अकामनिर्जरा यतिव्यतिरिक्तानां नरकतिर्यङ्मनुष्याऽमराणां विज्ञेया। अस्मिन् भावनाप्रकरणे तु सकामनिर्जरा गुणतोऽनुचिन्तनीया, एवमनु - - > ॥९३॥ <
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy