________________
253>
<5-5<
शयं प्राप्य पच्यमानोऽम्लीकृतोऽशुचिरेवभवति, पक्को वाय्वाशयं प्राप्य वायुना विभज्यते पृथक् खलारसः, खलान् मूत्रपुरीषादयो मलाः प्रादुर्भवन्ति, रसाच्छोणितं, शोणितान्मांसं, मांसान्मेदः, मेदसोऽस्थीनि, अस्थिभ्यो मज्जा, मजाभ्यश्च शुक्रं परिणमतीति, सर्व चैतत् श्लेष्मादिशुक्रान्तमशुचिर्भवति, एतेषामशुचिद्रव्याणां पदं कायः, ततः तस्मिन् कायेऽशुचित्त्वस्य को विवादः १ पुरुपाणां नेत्र-श्रोत्र-नासा-मुख-पायू-पस्थेभ्यो नवभ्यः स्त्रीणां तु पयोधस्युगलयोनिसहितेभ्यो द्वादशभ्यः स्रोतोभ्यो निरन्तरमामगन्धीरसः स्यन्दते, एतादृशेऽपि काये यः शौचसङ्कल्पः स कैवलं मोहविजृम्भितम् , स्नानानुलेपनधूपप्रघर्षवासयुक्तिमाल्यादिभिरपि अस्य शरीरस्याऽशुचित्वमशक्यप्रतीकारं खलु, सुरभिद्रव्याण्यपि अशुचिशरीरसम्पर्कादुर्गन्धीनि जायन्ते, तस्मादशुचि शरीरमिति चिन्तयतो भव्याऽऽत्मनः शरीरनिर्वेदो भवति, निर्विण्णश्च शरीरप्रहाणाय घटत इत्यशुचित्त्वभावना। उक्तश्च;-शरीरकस्यैवमशौचभावनां मदाभिमानस्मरसाददायिनीम् । विभावयन् निर्ममता महाभरं वोढुं दृढस्स्याद् बहुनोदितेन किम् ? ॥१॥६॥ 'आसव' इति, आश्रूयते कम्मोंपादीयते येन स आश्रव । इन्द्रियादिप्राग्व्याख्यातस्वरूपः, 'आसव' इति लुप्तविभक्तिको निर्देशः । इहामुत्राऽपाययुक्तान् महानदीस्रोतोवेगतीक्ष्णान् अकुशलाऽऽगमकुशलनिर्गमद्वारभूतानिन्द्रियादीनाश्रवान् जीवस्याऽऽत्मधनलुम्पकत्वेन चिन्तयेत् , तद्यथा;-स्पार्शनेन्द्रियप्रसक्तचित्तः सिद्धोऽनेकविद्याबलसंपन्नोऽप्याकाशगोऽष्टाङ्गमहानिमित्तपारगो गार्ग्यः सत्यकिनिधनं जगाम । तथा स्पर्शनमैथुनसुखप्रसङ्गाहितगर्भाश्वतरी प्रसवकाले प्रसवितुमशक्नुवन्ती तीवदुःक्वाभिहताऽवशा मरणमभ्युपैति । स्वेच्छाविहारिणो मदोत्कटा बलवन्तो हस्तिनोऽपि हस्तिबन्धकीषु स्पर्शनेन्द्रियप्रसक्तचेतस्का ग्रहणमुपगच्छन्ति तीव्राणि दुःक्खान्यनुभवन्ति च, एवं सर्वे एव स्पर्शनेन्द्रियाऽऽसक्ता इहामुत्र च
gr_25033333!
->卐द