SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ z_< भीनवतत्त्वमुमङ्गलाटीकायां॥९२॥ | संवरतत्त्वे द्वादश भावनाः॥ > < -E तृतीया संसारभावना ॥ ३ ॥ 'एगया य' इति एकता, एकोऽसहायस्तद्भाव एकता, एक एवाऽहं न मे कश्चित्स्वः परो वा विद्यते, एक एवाहं जाये, एक एवाहं म्रिये, न मे कश्चित्स्वजनसंज्ञः परजनसंज्ञो वा व्याधिजरामरणादीनि दुःक्वान्यपहरति प्रत्यंशहारी वा भवति, एक एवाऽहं स्वकृतकर्मफलमनुभवामीति चिन्तयेत् , एवं ह्यस्य चिन्तयतःस्वजनसंज्ञकेषु स्नेहानुरागप्रतिबन्धो न भवति परसंज्ञकेषु च न द्वेषाऽनुबन्धः, ततो निःसङ्गतामभ्युपगतो मोक्षायैव यतत इत्येकत्त्वाऽनुप्रेक्षा उक्तश्च एकः पापात् पतति नरके याति पुन्यात् स्वरेकः,पुन्यापुन्यप्रचयविगमान् मोक्षमेकः प्रयाति । एवं ज्ञात्वा चिरमवितथा निर्ममत्त्वस्य हेतो-रेकत्त्वाख्यामविहतधियो भावनां भावयन्तु॥१॥३॥'अन्नत्तं' इति, अन्योभिन्नस्तद्भावोऽन्यत्वम् , तदन्यत्वभावना, शरीरव्यतिरेकेणात्मानमनुचिन्तयेत् , अन्यच्छरीरमन्योऽहम् , इन्द्रियगोचरं शरीरमतीन्द्रियोऽहम् , अनित्यं शरीरं नित्योऽहम्, अझं शरीरं ज्ञोऽहम् , आद्यन्तवच्छरीरमनाद्यनन्तोऽहम् , बहूनि च मे शरीरशतसहस्राण्यतीतानि संसारे परिभ्रमतः, स एवायमहमन्यस्तेभ्य इत्यनुचिन्तयेत्, एवं हि चिन्तयतः शरीरप्रतिबन्धो न भवतीति अन्यश्च शरीरानित्योऽहमिति निःश्रेयसे संघटत इत्यन्यत्त्वाऽनुप्रेक्षा तथा चोक्तम्-'ममेतिमतिमाश्रिताः परतरेऽपि वस्तुन्यहो, निबध्य दधतेतरां स्वमिह कोशकारा इव । विविच्य तदिदं मुहुर्वितथभावनावर्जनाद् , भजेत ममताच्छिदे सततमन्यत्त्वभावनाम्॥१॥४॥'असुइत्तं' इति शुचि मलरहितं न शुचि अशुचि, तद्भावोऽशुचित्वम् , तच्चैवम् :-अशुचि खल्विदं शरीरमिति चिन्तयेत् , तत्र तावच्छरीरस्याऽऽद्य कारणं शुक्रं शोणितं च, तदुभयमत्यन्ताऽशुचि, तद्यथा-कवलाऽऽहारो हि अस्तमात्र एव श्लेष्माशयं प्राप्य श्लेष्मणा द्रवीकृतोऽत्यन्ताऽशुचिर्भवति, ततः पित्ता -17 -5 ॥९२॥
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy