________________
श्रीनवतत्त्व
सुमङ्गलाटीकायां
1755 -
गुरुविरहितस्य हि परिणामवैचित्र्याद्विकथादिदोषादसज्जनसम्पर्कात् सद्य एव मोक्षमार्गाद् भ्रंशः स्यात् तस्मादाप्राणिताद् गुरुकुलवासः श्रेयः, गुरुकुलवासेन वा स्वतंत्रीकृतस्य ज्ञानदर्शनचरणव्रतभावनागुत्यादिपरिवृद्धिः, अत एव साधोर्द्विसंगृहीतत्वमाचार्योपाध्यायाभ्यां निर्ग्रन्थ्यास्तु प्रवर्त्तिनीसंगृहीतत्त्वं चेत्यलमतिविस्तरेण । इतिदशविधो यतिधर्म्मः ॥ २९ ॥ साम्प्रतं गाथायुगलेन क्रमप्राप्ता भावना नामग्राहमाचष्टे:
॥ ९१ ॥
A
★ पढममणिच्चमसरणं, संसारो एगया य अण्णत्तं । असुइत्तं आसव, संवरो 'य तह णिज्जरा नवमी ॥ ३१ ॥ लोगसहावो बोही, य दुल्लहा धम्मस्स साहगा अरिहा । एयाओ भावणाओ भावेयद्वा पयत्तेणं ॥ ३२॥ श्र टीका; - ' पढमं ' इति, गाथाक्षरार्थस्सुगमः । ननु भावनेति शब्दस्य कोऽर्थः ? उच्यते; इष्टवियोगाऽनिष्टसंयोगादिप्रसङ्गेषु मा भूत् आत्मनि दौस्थ्यमिति चित्तस्थिरीकरणार्थं भाव्यन्ते अनुप्रेक्ष्यन्त इति भावना अनुप्रेक्षा इत्यर्थः । तत्र शरीरशय्याssसनवस्त्रादीनि बाह्याभ्यंतराणि द्रव्याणि सर्वसंयोगाश्चाऽनित्याः, “ तडित्तरलजीवितं, क्षणदृष्टं यौवनं जरारोगभजुरं शरीरं, सन्ध्यारागाऽस्थिरं रूपम्, वियोगपर्यवसानाः क्षणमात्ररमणीया इष्टसंयोगाः, कुशाग्रोदकबिन्दुचञ्चला लक्ष्म्यः " एवं चिन्तयत आत्मनस्तेषु बाह्याऽभ्यन्तरसंयोगेष्वभिष्वङ्गो न भवति, तद्वियोगजं दुःक्खमपि न स्यादिति प्रथमाऽनित्यभावना १ । शारीरमानसाऽनेकदुः क्खदंदह्यमानस्य प्राणिसार्थस्य शरणं भयापहारि स्थानं तदभावोऽशरणता, यथा निराश्रये जनवि- क रहिते वनस्थलीतले बलवता क्षुधातुनाऽऽभिषैषिणा सिंहेनाऽभ्याहतस्य मृगशिशोः शरणं न विद्यते एवं जन्मजरामरणव्याधि- ॥ ९१ ॥
A
L
A
V
T
A
W55
T
M
5N55<
G
संवरत
A
द्वादश
भावनाः ॥