SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ __'शौचम् ' इति, शुचिर्निर्मलः, निष्कल्मषः, तद्भावः शौचम् , तच्च द्रव्यभावमेदाविधा-तत्र द्रव्यशौचं प्रासुकैषणीयजलादिना शरीरगतमहाव्रणप्रक्षालनादि, भावशौचं तु मनोनिरभिष्वङ्गता धर्मसाधनरजोहरणमुखवत्रिकाचोलपट्टकपात्रादिष्वप्यनासक्तिरिति तात्पर्यम् । ___'अकिंचण' इति नास्य किश्चनमस्तीत्यकिञ्चनः, तस्य भाव आकिश्चन्यम् , शरीरधर्मोपकरणादिषु निर्ममत्त्वम् , तत्र शरीरमाश्रयमात्रमात्मनो यदा कदाचिद्यत्र कुत्रचित्त्यजनीयं चेदमशुचित्त्वङ्मांसाऽस्थिपञ्जरं च केवलं धर्मसाधनचेष्टायाः संयमभरक्षमायाः साहायके वर्तते तदिदं शकटाक्ष इवोपाञ्जनेनाऽऽहारादिनोपष्टम्भनीयम्, नत्ववयवसनिवेशशोभाथै ममात्रायमादर इति बुद्ध्या परिपाल्यमानेऽत्र मूर्छाऽभावत्वम् , धर्मोपकरणेऽपि रजोहरणादौ प्राणिरक्षाहेतुप्रमार्जनादिक्रियासाधने धार्यमाणेऽपि निर्ममत्त्वं प्रतीतम् । __ 'भं' इति ब्रह्म ब्रह्मचर्य मैथुनवर्जनमितियावत् , यद्यपि मनोज्ञाऽमनोज्ञविषयरागविरागत्यागो ब्रह्मचर्य, बृहत्त्वादात्मा ब्रह्मा, तस्य वृत्तिरात्मनि ब्रह्मचर्यमाख्यातं, ब्रह्मणि चरणमात्मारामत्त्वमरक्तद्विष्टाऽऽत्मनि व्यवस्थानमिति वचनात् , तथापि मैथुनवर्जनमेव प्रधानत्वेन ब्रह्मचर्यम् , तत्परिपालनाय भगवद्भिर्वसतिकथानिषद्येन्द्रियकुड्यंतरपूर्वक्रीडितप्रणीताऽऽहारांतिमात्रभोजनविभूषणाऽऽख्यगुप्तिनवकप्रतिपादनाद् गुरुकुलवासनियमनाच्चेति, तथा च भाष्यम्-व्रतपरिपालनाय ज्ञानाभिवृद्धये कषायपरिपाकाय च गुरुकुलवासो ब्रह्मचर्यमस्वातन्त्र्यं गुर्वधीनत्त्वं गुरुनिर्देशस्थायित्वमित्यर्थश्च" ब्रह्मचर्यार्थ गुरुकुलवासोऽवश्यमुपादेयः, यतो 'नाणस्स होइ भागी, थिरयरओ दंसणे चरित्ते य । धन्ना आवकहाए गुरुकुलवासं न मुश्चन्ति' ॥१॥ 109EEZE09 15
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy