________________
श्रीनवतत्त्वसुमङ्गलाटीकायां॥९ ॥
संवरतत्त्वे दशविधो
यतिधर्मः॥
zss>sE39>卐<!
निवर्त्तनं धर्मध्यानादिप्रवर्त्तनश्च मनःसंयमः, एवं वाकायसंयमावपि दुष्टाऽदुष्टनिवृत्तिप्रवृत्तिभ्यां वाच्यौ, अजीवकायसंयम इत्युपकरणसंयमः, स च पुस्तकादिः, तत्र यदा ग्रहणधारणाशक्तिसंपद्भाजोऽभूवन् दीर्घायवश्वासन मुनयस्तदा नासीत् प्रयोजनं पुस्तकः, दुःषमानुभावात्तु परिहीणे ग्रहणधारणादिभिरस्ति नियुक्त्यादिपुस्तकग्रहणाऽनुज्ञा, इत्येवं यथाकालमपेक्ष्याऽसंयमस्संयमो वा भवति सोज्जीवकायसंयम उपकरणसंयमो वा, इति संयमधर्मस्सप्तदशविधः । अत्र तपश्च संयमश्च तपस्संयमौ इति कृतद्वन्द्वे ऐकपद्यं ज्ञेयमिति, 'बोद्धव्वे ' इति बोद्धव्यौ विज्ञेयावित्यर्थः ॥
तथा सन्तो मुनयः पदार्था वा तेभ्यो हितं सत्यम् , सति वा विद्यमानेऽर्थे भवं वचस्सत्यम् । तदपि चतुर्विधम् , यथोक्तं वाचकमुख्येन 'अविसंवादनयोगः, कायमनोवागजिह्मता चैव । सत्यं चतुर्विधं तच्च, जिनवरमतेऽस्ति नान्यत्र'॥१॥ न च विद्यमानार्थगोचरतया लुब्धकाय मृगाऽऽख्यानमपि सत्यमिति वाच्यं, तस्याऽनेकधर्माऽध्यासितस्य विद्यमानत्त्वेन विवक्षणात, सयोहितमित्यात्मिकां व्युत्पत्तिमनुसृत्य सर्वत्र चिन्त्यमिति, उक्तश्च भाष्ये-" तदनृतमपरुषमपिशुनमनसभ्यमचपलमनाविलमविरलमसंभ्रान्तं मधुरमभिजातमसंदिग्धं स्फुटमौदार्ययुक्तमग्राम्यपदार्थाभिव्याहारमसीभरमरागद्वेषयुक्तं सूत्रमार्गानुसारप्रवृतार्थमय॑मर्थिजनभावग्रहणसमर्थमात्मपरानुग्राहकं निरुपधं देशकालोपपन्नमनवद्यमर्हच्छासनप्रशस्तं यतं मितं याचनं पृच्छनं प्रश्नव्याकरणम्" इति सत्यं धर्मः।
१ अविमर्दकरम्, आश्वेवप्रस्तुतार्थपरिसमाप्तिकारि इत्यर्थः । २ गणधरादिप्रथितं सूत्रं तस्य यो मार्ग उत्सर्गापवादलक्षण इति । ३ अन्येन पृष्टः प्रवचनाऽविरुद्धं व्याकरोति ॥
in卐9557055-5<
॥९०॥