________________
5
1295755-545552
तथा तपोधों बाह्याऽभ्यन्तरभेदाद् द्विविधः, भेदौ तु पुरस्ताद् वक्ष्येते निर्जराप्रसङ्गे । तत्र तपतीति तपः 'कर्तर्यसुन्,' शरीरेन्द्रियतापनात कर्मनिर्दहनाच तपोऽनशनादि, प्रकीर्णकश्च तपोऽनेकविधम् , तद्यथा-यववज्रमध्ये चन्द्रप्रतिमे हे. कनकरत्नमुक्तावल्यस्तिस्त्रः, सिंहविक्रीडिते द्वे, सप्तसप्तमिकाद्याः प्रतिमाश्चतस्त्रः, भद्रोत्तरमाचाम्लं वर्धमानं सर्वतोभद्रमित्यादि, तथा द्वादशभिक्षुप्रतिमा मासिकाद्या आसप्तमासिक्याः सप्त, सप्तरात्रिकयास्तिस्रः, अहोरात्रिकी रात्रिकी चेत्यादि ५॥
तथा मनोवाक्कायानां प्रवचनप्रणीतविधिना संयमनं संयमः, एवं चिन्तयितव्यमेवं वक्तव्यमेवश्च गन्तव्यमेवं स्थातव्यमिति नियमनं, स च सप्तदश विधः, यदाह वाचकमुख्यः,-'पञ्चाऽऽश्रवाद्विरमणं, पञ्चेन्द्रियनिग्रहः कषायजयः दण्डत्रयविरतिश्चेति संयमः सप्तदशभेदः॥१॥ अथवाऽन्यथा सप्तदशविधत्त्वम्-पृथ्वीकायसंयमः, अप्कायसंयमः, तेजाकायसंयमः, वायुकायसंयमः, वनस्पतिकायसंयमः, द्वीन्द्रियसंयमः, त्रीन्द्रियसंयमः, चतुरिन्द्रियसंयमः, पञ्चेन्द्रियसंयमः, प्रेक्ष्यसंयमः, उपेक्ष्यसंयमः, प्रमार्जनीसंयमः, अप्रमार्जनासंयमः, मनःसंयमः, वासंयमः, कायसंयमः, अजीवकायसंयमश्चेति, तत्र पृथिवीकायिकानां जीवानां मनोवाक्कायकृतकारितानुमतिभिः संघट्टपरितापव्यापादनवर्जनं पृथ्वीकायसंयमः, एवमकायसंयमादयोऽपि यावत् पञ्चेन्द्रियसंयम इति । चक्षुषा निर्जीवस्थंडिलायवलोक्य स्थानायासेवनं प्रेक्ष्यसंयमः, व्यापार्यान् साध्वादीन् प्रवचनविहितासु क्रियासु व्यापारयतोऽव्यापार्यान् गृहस्थादींश्च संयमव्यापारेष्वव्यापारयत उपेक्षमाणस्यौदासीन्यं भजतः संयमो भवतीति उपेक्ष्यसंयमः, व्यापार्याऽव्यापार्यसंयमो वाऽपराभिधानः, प्रमार्जनाप्रमार्जनासंयमौ च स्थंडिलाऽस्थंडिलाभ्यामस्थण्डिलस्थण्डिलयोस्संक्रामतो रजोहरणेन चरणौ सागारिकाऽसद्भावसद्भावे प्रमार्जनाप्रमार्जने समाचरतो बोद्धव्यौ, मनसोऽभिद्रोहाऽभिमानादि
EZ0gs-!