________________
भीनवतत्त्वसुमङ्गलाटीकायां॥८९॥
संवरतचे दशविधो
यतिधर्मः॥
पूर्वोक्ताश्चतस्रोऽप्युपादेया इति १॥ ___अथ मार्दवं, तत्र मृदोर्भावो माईवं, अभ्युत्थानाऽऽसनदानाञ्जलिप्रग्रहयथार्हविनयकरणलक्षणनीचैर्वर्त्तनम् , गर्वरूपचित्तपरिणामस्य विपर्ययोऽनुत्सेकच, तन्मार्दवस्य लक्षणम् , उकञ्च श्रीतत्त्वार्थभाष्ये नीचैर्वृत्यनुत्सेको मार्दवलक्षणम्, मृदुभावो मृदुकर्म मदनिग्रहो मानविघातश्चेति पर्यायाः। तत्र मानस्येमान्यष्टौ स्थानानि भवन्ति, तद्यथा-जातिः कुलं रूपं ऐश्वर्य विज्ञानं श्रुतं लाभो वीर्यश्चेति, 'एभिर्जात्यादिभिरष्टाभिर्मदस्थानमत्तः पराऽऽत्मनिन्दाप्रशंसाऽभिरतस्तीवाऽहंकारोपहतमतिरिहामुत्र चाशुभफलं कर्मोपचिनोति' इत्युपदिश्यमानोऽपि मत्तःश्रेयो न प्रतिपद्यते, तस्मादेषां मदस्थानानां निग्रहो माईवं धर्म इति २।
संप्रत्यार्जवमभिधीयते; कायवाङ्मनसां शाठ्यविरहितत्त्वं मायाप्रतिपक्षभूतं ऋजुभावः ऋजुकर्म आर्जवं भावदोषवजनमित्येकार्थकाः, मायावी तु कपटपटुप्रच्छादितकायत्वात् सर्वाऽभिशंकनीयः, 'भावदोषयुक्तो हि छमनिकृतिसंयुत इहामुत्र च दुःरकफलकमकुशलं कर्म बध्नाति' इत्युपदिश्यमानोऽपि मायावी मुत्यसाधारणकारणसम्यग्दर्शनादिश्रेयो न श्रद्धत्ते, तस्मादार्जवं धर्म इति ३॥
तथा मोचनं बाह्याऽभ्यन्तरग्रन्थत्यजनं मुक्तिः, मुक्तिर्लोभपरित्यागः परिग्रहग्रहिलताऽभावादयः पर्यायाः, बाह्याऽभ्यन्तरोपधिशरीराऽन्नपानाद्याश्रयो परिष्वङ्गजन्यभावदोषपरित्यागो मुक्तिः, तथाविधमुक्तिविकलः परिग्रहग्रहिलस्तु इहाऽमुत्र च दुःरकफलकमकुशलं कर्म सश्चिन्वन् सम्यगुपदिश्यमानोऽपि न श्रेयसे यतते, एवश्च न धर्मः, तस्मान्मुक्तियतिधर्मः, एवं स्वधिया सर्वत्रोह्यम् ४॥
'卐Egyzs0卐卐-卐र
॥८९॥