________________
zy卐>ys卐
दयो दोषा भवन्तीति, तथाहि-क्रुद्धः कषायपरिणतो विद्वेषी सन् कर्म बघ्नीते, परं वामित्रं व्यापादयति अतः प्राणातिपातनिवृत्तिव्रतलोपस्स्यात्, गुरूनधिक्षिपेदतो निर्वाणसाधनानां ज्ञानादीनां परिहाणिरवश्यंभाविनी, कोपाकुलो वा भ्रष्टस्मृतिको मृषाऽपि भाषेत, विस्मृतप्रव्रज्याप्रतिपत्तिः परेणादत्तमप्याददीत, द्वेषात् परपाखण्डिनीषु ब्रह्मव्रतभङ्गमप्यासेवेत, तथा प्रद्विष्टः सहायबुद्ध्या गृहस्थेष्वविरतेषु मूर्छामपि कुर्यात् , क्रमेणोत्तरगुणपरिक्षयोऽपि स्यात् , इत्येतान् दोषान् परिभाव्य क्षमितव्यमिति । किश्च स्वकृतकर्मफलाभ्यागमोऽयं मम, निमित्तमात्रं पर इति क्षमितव्यम् , जन्मान्तरोपात्तस्य कर्मणो यदा विपाकस्तदाऽऽक्रोशति ताडयति परः, स तु निमित्तमात्रं कर्मोदयस्य, यस्मा व्यक्षेत्रकालभवभावाऽपेक्षः कर्मणामुदयो भगवद्भिराख्यातः, स्वकृतश्च कर्म भोक्तव्यमवश्यंतया निकाचितं तपसा वा क्षपणीयमिति क्षमितव्यम् । किञ्च क्षमाया गुणाननायासादीन् ध्यावा क्षमितव्यम् , तच्चैवम् -प्रद्विष्टस्तु प्रहरणसहायाऽन्वेषणसंरम्भावेशाऽऽरुणलोचनस्वेदद्रवप्रवाहप्रहारवेदनाऽऽत्मकाऽऽयासजन्य कर्म प्रकृष्टतया बघ्नाति, संसारगहनाटव्यां संबंभ्रमीति, क्षमाप्रधानस्य तु पूर्वोक्तलक्षणस्याऽऽयासस्य विरहात् स्वस्थेन भूयते, आयासनिमित्तककर्मराहित्यं संक्लिष्टचित्ताऽभावःशुभध्यानाऽऽध्यवसायित्त्वं स्तिमितप्रसन्नान्तरात्मत्वादयो गुणाःप्रादुर्भवन्ति, ततः क्षमितव्यमिति निष्कर्षः। इयं क्षमा पञ्चविधा; सापराधिनमपि 'अयं मम उपकारी, इति क्षमते सा उपकारक्षमा १, भाविनमपायं विचिन्त्य शक्त्यभावाच या क्षमा सा अपकारक्षमा २, दुक्खफलकः कर्मनिबन्धनश्च कोप इति चिन्तापरा क्षमा विपाकक्षमा ३, स्वगर्हावचनश्रवणेनापि न खिद्यते न च कस्मैचिदपि दुह्यतीति वचनक्षमा ४, परनिकारसामर्थ्यसद्भावेपि 'क्षमा एव आत्मधर्म' इति बुद्धिपरा या सा धर्मक्षमा ५, सैव यद्यपि गरीयसी तथापि क्वचित् कदाचित् कथञ्चित्
卐卐52095-5
>