________________
zs
संवरतत्त्वे परीषहाः॥
श्रीनवतत्त्वमुमालाटीकायां॥८८॥
>
<E-
खंती मद्दव अज्जव, मुत्ती तव संजमे अ बोद्धव्वे । सच्चं सोअं आकिंचणंच, बंभं च जइ धम्मो॥२९॥
टीका;-खंती' इति, तत्र शान्तिः क्षमा क्रोधजयः, स चोपशमेन स्यात्. १, मृदोर्भावो मार्दवमहंकारपरिहारः २, ऋजोर्भाव आर्जवं मायापरित्यागः ३, लोभपरिहारो निर्लोभता मुक्त्यपरपर्याया ४, तपो बाह्याऽभ्यंतरमेदैर्द्वादशधा ५, संयमः | सप्तदशभेदभिन्नः प्राणातिपातादिविरमणरूपः ६, सयो जीवेभ्यो हितं. सत्यम् सर्वजीवेषु सुखकारिवचनं ७, शौचमदत्तादानपरिहारः ८, अकिञ्चनत्त्वं, न विद्यते किंचन यस्य सोऽकिश्चनः, अकिञ्चनस्य भावोऽकिञ्चनत्वं सर्वपरिग्रहत्यागः ९, ब्रह्म औदारिकवैक्रियसम्बन्धिमैथुनपरिहारः १०, इति दशविधो यतिधर्मः, यतिना मुनिना संवरार्थ धार्यत इति यतिधर्म, इति गाथासंक्षेपार्थः॥ व्यासार्थस्त्वयम्-गाथायां 'जइधम्मो' इति यतिपदेन अगारिधर्मव्यवच्छेदः, क्षमाप्रधानाः सकलमदस्थाननिग्रहकारिणः शायरहिता:संतोषाऽमृतत्प्ताःसत्यवादिनः संयमिनस्तपस्विनो यथावत्सूत्रार्थप्रदातारः कनकादिकिञ्चनरहिता नवविधगुप्तिपरिशीलितं ब्रह्म बिभ्राणा यतय एव संभवन्ति न त्वगारिणः, देशतोऽगारिणामपि क्षमादयो दृश्यन्ते, परं यथा साधूनां न तथाऽगारिणामिति झेयम् । एष च क्षमादिसमुदायः संवरं धारयतीति, संवरार्थश्च यतिना धार्यत इति धर्मो वा, एतावन्ति यतेर्धाङ्गानि तनिष्पादितश्च यतिधर्म इति । तत्र क्षमा तितिक्षा सहिष्णुत्वं क्रोधनिग्रहः इत्यनान्तरम् , कथश्च क्षमितव्यमिति चेदुच्यते-परैः प्रयुक्तस्य क्रोधनिमित्तस्याऽऽत्मनि भावचिन्तनादभावचिन्तनाद्वा क्षमितव्यम् , भावचिन्तना तावद् विद्यन्ते मय्येते दोषाः, किमत्राऽसौ मिथ्याब्रवीतीति क्षमितव्यम् , अभावचिन्तनादपि क्षमितव्यं, नैते विद्यन्ते मयि दोषा यात्रज्ञानादसौ ब्रवीतीति क्षमितव्यम् । किश्च क्रोधदोषचिन्तनाच्च क्षमितव्यम् , क्रुद्धस्य हि विद्वेषाऽऽसादनस्मृतिभ्रंशव्रतलोपा
->
॥
4