________________
zs>
卐卐卐>卐द!
सर्वाणि न प्रदर्श्यन्ते, तथापि प्रसङ्गाशून्यार्थमेकं विभावयामस्तच्चैवम् :-" तगरा नगर्यामहन्मित्राचार्यपाधै मतापितृभ्यां सहार्हनकपुत्रः प्रबजितः, पित्रा सर्ववैयावृत्यकरणेनेतस्ततः परिभ्रम्य भव्यभिक्षाभोजनसंपादनेन स बालोऽत्यन्तं सुखीकृतः, उपविष्ट एव भुंक्ते, कदापि भिक्षायै न भ्रमति, तद्भिक्षार्थ स्वभिक्षार्थश्च पितुरेव भ्रमणात् , अन्यदा पितरि मृते साधुभिः प्रेरितः स बालो ग्रीष्ममासे भिक्षार्थ गतः, तापाभिभूतः प्रोत्तुङ्गगृहच्छायायामुपविशति, पुनस्तत उत्तिष्ठति शनैश्शनैर्याति, एवं कुर्वन्तमतिसुकुमारं तमहन्नकं कुमारं रूपेण कन्दर्पावतारं दृष्ट्वा काचित् प्रोषितवणिगभार्या तमाकार्य गृहे स्थापितवती, तया सह विषयाऽऽसक्तोऽभूत्, अथ तन्माता साध्वी पुत्रमोहेन अथिलीभृय अरे ! अर्हनक! २ इति निर्घोषयन्ती चतुष्पथादिषु भ्रमति, एकदा गवाक्षस्थेनाहनकेन सञ्जातदीनाऽवस्था माता दष्टा, सञ्जाताऽन्तःसंवेगो गवाक्षादुत्तीय पादयोः पतित्त्वा मातरमेवाऽऽह-हे मातः! सोऽहमहन्नक इति तद्वचश्रवणात्स्वस्थचित्ता माता तमेवमाह-वत्स ! भव्यकुलजातस्य तव केयमवस्था ? स प्राह-मातश्चारित्रं पालयितुं न शक्नोमि, सा प्राह-तर्हि अनशनं कुरु, मातृवचसा तप्तशिलायां सुस्वा पादपोगमनं चकार, सम्यगुष्णपरीपहं विषह्य समाधिभाग देवत्वं प्राप्तवान्" । एवमर्हनकेन यदा परीषहः सोढस्तदा सुखभाग् जातः, तत एते, द्वाविंशतिरिति न न्यूनाधिका धर्मविघ्नहेतवः संवरफलमभिसमीक्ष्याऽऽसमंतात् परिषोढव्या इति । ___ ननु केषां कर्मणामुदयेनैते प्रादुर्भवन्तीत्याहः-ज्ञानावरणीयवेदनीयदर्शनचारित्रमोहनीयान्तरायकर्मणामुदयादेते प्रादुर्भवन्ति, तत्र प्रज्ञाज्ञानपरीपही ज्ञानावरणीयोदयेन भवतः, प्रज्ञाज्ञाने ज्ञानावरणक्षयोपशमजन्ये, ज्ञानावरणक्षयोपशमश्च ज्ञाना