________________
श्रीनवतत्त्वसुमङ्गलाटीकायां
25<>
संवरतत्त्वे परीषहाः।
॥८६॥
<
ननु परीपहसहने वात्मनि दुःखं सञ्जायते, कथं ज्ञानपूर्वकमात्मा दुःखौदधौ पातनीयः, यथा पराऽऽत्मा दयनीयस्तथा स्वाऽऽत्माऽपि, क्षुधालुरशनाऽलामे आध्यानोपगतः कर्मबन्धं विदध्यात् कर्मबन्धश्च संसारवृद्धिकारणं, एवं सर्वत्रापि द्रष्टव्यम् , ततः किमर्थ परीषहसहनं संवरत्त्वेन जायते ? सत्यम् , उच्यते-दुःखपूर्णेऽस्मिन् भवोदधौ न कुत्रचिदपि सातं विद्यते, किश्चिदपि सुखं स्यात् तत् संवरप्रधाने धमें एव, यद्यप्यनादिवासना संस्कारसङ्गतोऽयं जीवो मेरुगिरिसन्निभं संयमभारं वोढुं न शक्नोति, तथापि ज्ञाततत्त्व एवं ध्यायति यत् संयमपरिपालनसंगतमल्यं दुःखं महते फलाय यावदपवर्गलाभायाऽपि भवति, परवशेनानेन जीवात्मना नरकतिर्यग्गतिषु असह्याऽवर्णनीयाऽश्राव्यदुःक्खानि सोढानि, तत्पार्श्वे कियदिदं दुःखं, अन्यच्च स्वाधीनत्त्वेन दुःरकसहनं दुःरकमेव नास्ति, यथाऽऽपणिकायां व्यापारकुशला वणिजो व्यापारनियुक्ताः सन्तोऽर्थलाभाधीना बुभुक्षादिकं मनागपि न गणयन्ति, तथा मोक्षकामा भव्याऽऽत्मानः सम्यग्दर्शनादिरत्नत्रयीमाराधयन्तः संयमसेवानुगतं लोचायनुष्ठानप्रभृतिक परीषहदुक्खं कर्मनिर्जराकारणत्वेन मत्त्वा मनसि न धारयन्ति, इष्टनगरं प्राप्तुकामः कश्चित्पान्थोऽध्वपरिश्रान्तः पथि एवं चिन्तयेदहो अहमध्वश्रान्तो न शक्नोमि पदमप्यग्रे गन्तुमिति तत्रैवाधितिष्ठेत् ततः स्वेप्सितस्थानाऽवाप्तिवश्चितो भवेत् , तद्वन् मुक्तिपुरी प्राप्तुकामोऽयं सम्यग्दृष्टिः संवरनिमित्तं परीपहादिदुःरकाऽऽक्रान्तमना नाग्रेतनगुणस्थानश्रेणिमधिरोढुं यतते तदा कथं लोकाग्रवर्तिसिद्धिसौधं संप्राप्नुयात् , तस्मात् कर्मक्षयकारणत्वेन, मन्यमानो भव्याऽऽत्मा आगमानुसारेण परीषहादिसहने सम्यग् यतते, एवश्चाऽऽराधको भूत्वा स्वर्गाऽपवर्गसुखभाग् भवति, यस्तु नैवं स संसारमहोदधौ निमअति । श्रीमदुत्तराध्ययनादिष्पत्रविषये प्रतिपरीषहं बालावबोधाय दृष्टान्तानि भावितानि, विस्तरभयात्
>
|॥८६॥
!