SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ izs卐>55-5 शरीरे सञ्चित्य कठिनीभूतो ग्रीष्मोष्मसंपातजनितधर्मजलार्द्रतोच्छलहुर्गन्धोऽपि नोद्वेगाऽऽपादनेन स्नानाभिलाषमुत्पादयति तस्य ज्ञेयः १८ । भक्तलोकोपपादितवस्त्रपात्रानपानादिसत्कारस्यापि न मानोद्वहनं, नाऽपि विपक्षे विषादकरणं यस्य तस्य सत्कारपरीषहः १९ । 'पण्णा' इति प्रज्ञायतेऽनयेति प्रज्ञा बुद्ध्यतिशयः, तत्प्राप्तोऽपि यो न गर्वमुद्वहते, नापि प्रज्ञाविरहितो न किश्चिजानेऽहं महामूर्खः सर्वपराभूतः' इति परितापमुपयाति तस्य प्रज्ञापरीपहः २० ।' अण्णाणसम्मत्तं' इति, अज्ञानश्च सम्यक्त्वञ्चाऽज्ञानसम्यक्त्वं समाहारत्त्वादेकवचनम् , तत्राज्ञानं ज्ञानविपक्षः, ज्ञानश्च चतुर्दशपूर्वाण्येकादशाङ्गानि चोपाङ्गादिसमन्वितानि, तत्पारगतः समस्तश्रुतोदधिपारदृष्टाऽहमिति यो गर्व नोद्वहते, नाप्यागमपरिज्ञानविकलो 'घिङ् मां निरक्षरकुक्षिम्' इति विषीदति, केवलं ज्ञानाबरणक्षयोपशमोदयविजृम्भितमेतदिति स्वकृतकर्मफलोपभोगात्तपोऽनुष्ठानाच्चेदमपगच्छतीति यः परिभावयति तस्याज्ञानपरीषहः २१ । सम्यक्त्वपरीषहः-देवतादिसान्निध्याऽभावेऽपि दर्शनाऽन्तरीयर्द्धिदर्शनादौ वा दृष्टिसम्मोहमनुगच्छतो विज्ञेय इति । अत्र केचिदिमं सम्यक्त्वपरीषहं 'असम्यक्त्वपरीषहं ' चाहुः, ते च एवं व्यावर्णयन्तिसर्वपापस्थानेभ्यो विरतः प्रकृष्टतपोऽनुष्ठायी निस्सङ्गवाहं तथापि धर्माधर्मात्मदेवनारकादिभावान्नेक्षे, अतो मृषासमस्तमेतदित्यसम्यक्त्वपरीषहः, तत्रैवमालोचयेत्-धाऽधम्मौ पुण्यपापलक्षणौ यदि कर्मरूपौ पुद्गलाऽऽत्मको ततस्तयोः कार्यदर्शनानुमानसमधिगम्यत्त्वम् , अथ क्षमाक्रोधादिको धाऽधम्मौ ततस्स्वानुभवत्वादात्मपरिणामरूपत्वात् प्रत्यक्षविरोधः, देवास्त्वत्यन्तसुखाऽऽसक्तत्त्वान्मनुजलोके कार्याऽभावाहुःषमानुभावाच्च न दर्शनगोचरमायान्ति, नारकास्तु तीब्रवेदनाऽऽर्ताः पूर्वकृतकम्मोदयनिगडबन्धनवशीकृतत्त्वादस्वतन्त्राः कथमायान्तीत्येवमालोचयतोऽसम्यक्त्वपरीषहजयो भवति २२ ॥ ७EEEEZEOS -5>卐
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy