SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ श्रीनवतत्त्वसुमङ्गलाटीकायां संवरतत्त्वे परीषहाः। ॥८५॥ तद्यदि सत्यं का कोपः, शिक्षयति हि मामयमुपकारी, न पुनरेवं करिष्यामि, असत्यं चेत् सुतरां कोपो न कर्त्तव्य इत्येवमनुचिन्तयत आक्रोशपरीषहः १२ वधस्ताडनं पाणितलादिभिः, तदधिषहनं कुव्वतोऽन्यदिदमात्मनः शरीरमवश्यंतया विध्वंसते एव, आत्मा तु न शक्य एव विध्वंसयितुम् , अतः स्वकृतकर्मफलमिदमिति बुद्ध्या वधपरीषहः १३ । याचनं मार्गणं, भिक्षोहि वस्त्रपात्रानपानप्रतिश्रयादि परतो लब्धव्यं निखिलमेव, शालीनतया च न याञ्चां प्रत्याद्रियते, साधुना तु प्रागल्भ्यभाजा सञ्जाते कार्य स्वधर्मकायपरिपालनाय याचनमवश्यं कार्यमिति, एवमनुतिष्ठता याश्चापरीषहजयः कृतो भवति १४ । 'अलाभरोगतणफासा' इति, इदमपि प्राग्वत् कृतद्वन्द्वं बहुवचनान्तं परीषहत्रयावेदकम् , तत्राऽलाभोऽप्राप्तिः, याचितेऽपि, वस्तूनि परेणादत्ते 'बहुं परघरे अस्थि विविहं खाइमं साइमं । न तच्थ पंडिओ कुप्पे इच्छादिज परो न वा ॥१॥ इति सिद्धान्तवचनानुस्मृत्या विषादमगच्छतोऽलाभपरीषहः १५। रोगो ज्वरातिसारकासश्वासादिस्तस्य प्रादुर्भावे सत्यपि न गच्छनिर्गतश्चिकित्सायां प्रवर्तते, गच्छवासिनस्त्वल्पबहुत्त्वालोचनया सम्यक् सहन्ते प्रवचनोक्तविधिना च प्रतिक्रियामाचरन्तीति, एवमनुतिष्ठता रोगपरीपहजयः कृतो भवति १६ । अशुषिरतणस्य दर्भादेः परिभोगोऽनुज्ञातो गच्छनिर्गतानां गच्छनिवासिनाच, तत्र येषां निष्पन्नानां शयनमनुज्ञातं ते तान् दर्भान् भूमावास्तीय संस्तारकोत्तरपट्टकौ च दर्भाणामुपरि विधाय शेरते, चौरापहृतोपकरणो वा प्रतनुसंस्तारकोत्तरपट्टकावत्यन्तजीर्णत्वात् , तथापि तं परुषकुशदर्भादितणस्पर्श सम्यक् सहेत १७। 'मलसक्कारपरीसह' इति, मलश्च सत्कारश्च मलसत्कारौ तौ च तौ परिषयमाणत्वात् परीसहौ च मलसत्कारपरीषहौ " बहुवयणेण दुवयणं " इति लक्षणेन बहुवचनान्तता, तत्र मलपरीषहो नाम यस्य स्वेदवारिसम्पर्काद्रजापुञ्जः | 卐ry 30zyyya! ॥८५॥
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy