________________
<
>
<
वुत्तो, नायपुत्तेण ताइणा । मुच्छा परिग्गहो वुत्तो, ईइ वुत्तं महेसिणा' ॥ २ ॥ इति, चेलं च वस्त्रं, तेन शीर्णजीर्णेनाऽपि सता अकल्पनीयवस्त्रमनभिलषतोऽचेलपरीषहः, न च भिक्षुरमहा_णि खण्डितानि जीर्णानि च वासांसि धारयन् दैन्यं गच्छेत् , तथा चाऽऽगमः;-' परिजुण्णेहिं वत्त्येहिं, होक्खामित्ति अचेलए । अदुवा सचेलए होक्खं इति भिक्खु न चिंतए' ॥१॥ ६ । 'अरइ' इति अरतिपरीषहः-अयं च यस्य विहरतस्तिष्ठतो वा संयमेऽरतिरप्रीतिरुत्पद्यते तस्य तां सम्यगधिषहमाणस्य ' इह खलु भो पवइएणं उप्पन्नदुक्खेणं संजमे अरइसमावन्नचित्तेणं ओहाणुप्पेहिणा अणोहाइएणं एव हयरस्सिगयंकुसपोयपडागाभूयाई इमाइं अट्ठारसठाणाई सम्मं संपडिलेहियवाई भवंति' इत्यागमोक्तरीत्याऽष्टादशस्थानानुचिन्तनापरस्य मन्तव्यः, उत्पन्नाऽरतिनापि संसारस्वभावमालोच्य सम्यग् धर्मारामतेनैव भवितव्यमात्महिताशंसिना ७ । 'इथिओ' इति स्वीपरीपहः-स्त्रीणामङ्गप्रत्यङ्गसंस्थानहसितललितनयनविभ्रमादिचेष्टां न चिन्तयेत्, न जातुचिच्चक्षुरपि मोक्षमार्गार्गलासु तासु कामबुद्ध्या निवेशयेदिति स्वीपरीषहजयः कृतो भवति ८ । 'चरिया' इति चरणं चर्या, तत्परीषहो वर्जितालयस्य ग्रामनगरादिष्वनियतवसतेर्निर्ममत्त्वस्य मासकल्पादिचरणमाचरतो भवति ९ । 'निसीहिया' निषीदन्त्यस्यामिति निषद्या स्थानं स्त्रीपशुपण्डकविवर्जितं, तत्परीपहस्तत्र तिष्ठत इष्टानिष्टोपसर्गसम्भवेऽपि अविचलितचित्तस्य ज्ञेयः १०। ' सेजा' इति, शेरतेऽस्यामिति शय्या संस्तारको वसतिर्वा, तत्र संस्तारके मृदुकठिनादिभेदेनोच्चावचे वसतौ च पांशूत्करप्रचुराऽप्रचुरशिशिरघम्मोपतापजनिकायामनुद्विग्नमानसस्य सतः शय्यापरीपहः ११ । ' अकोसवहजायणा' इति आक्रोशश्च वधश्च याचना चेति द्वन्द्वे आक्रोशवधयाचना इति बहुवचनान्तं पदं परीपत्रयसूचकम् , तत्राऽऽक्रोशोऽनिष्टवचनम् ,
in 555125033-!
<
->
१५
<!