________________
zss
संवरतत्त्वे परीपहा॥
श्रीनवतत्त्वसुमङ्गलाटीकायां॥८४॥
>
<
समणेणं भगवया महावीरेणं कासवेणं पवेइया, जे भिक्खू सुच्चा नच्चा निच्चा अभिभूय भिक्खायरियाए परिवयंतो पुट्ठो नो विहन्निज्जा" इति, तथा चार्हत्प्रवचनसङ्ग्रहे तत्त्वार्थाधिगमसूत्रे-" मार्गाऽच्यवननिर्जराथं परिषोढव्याः परीषहाः" इति । एते च द्वाविंशतिसंख्याकाः प्रत्येकं व्याख्यायन्ते-अत्र सर्वेषु परीषहेषु पूर्व क्षुधया निर्देशः, सर्वेषु क्षुधाया दुस्सहत्त्वात् । क्षुवेदनामुदितामशेषवेदनातिशायिनी जठरान्त्रविदाहिनी सम्यग्विषहमाणस्याऽऽगमविहितेनाऽन्धसा क्षुधां शमयतोऽनेषणीयश्च परिहरतः क्षुत्परीषहजयो भवति, अनेषणीयग्रहणे तु विजितस्स्यात्क्षुत्परीषहेणेति प्रथमः१। एवं पिपासापरीषहोपि द्रष्टव्यः२। 'सी-उण्हं ' ति शीतपरीषह उष्णपरीषहश्च, तत्र शीतपरीषहो यथा महत्यपि शीते पतिते जीर्णवसनः परित्राणवर्जितो नाऽकल्प्यानि वासांसि परिगृण्हीयात् परिभुजीत वा, नापि शीताऽऽत्तोऽग्निं ज्वालयेत् , अन्यज्वालित वा नाऽऽसेवयेत् , एवमनुतिष्ठता शीतपरीषहजयः कृतो भवति ३। उष्णपरितप्तोऽपि न जलावगाहनस्तानव्यजनवातादि वाञ्छयेत् , नैवाऽऽतपत्राद्युष्णत्राणायाऽऽददीत, उष्णमापतितं सम्यक् सहेत, एवमनुतिष्ठतोष्णपरीषहजयः कृतो भवति । 'दंसा चेलारइथिओ' इत्येकपदं कृतद्वन्द्वं बहुवचनान्तम्, तत्र 'दंसा' इति दंशमशकपरीषहः, दंशमशकादिना दश्यमानस्यापि तत्स्थानापगमनेच्छा तदपनयनाय धूमादियत्नस्तनिवारणाय व्यजनादिधारणं वा यस्य नास्ति तस्य तत्परीपहजयो बोद्धव्यः ५ । 'अचेला' इत्यचेलपरीषहः नाग्न्यमप्युच्यते श्रीतत्त्वार्थादौ, स च न निरुपकरणतैव दिगम्बरभौतिकादिवत्, किन्त्वाऽऽगमाभिहितप्रमाणकल्पादिधारणेऽपि निष्परिग्रहत्त्वानिष्परिग्रहत्त्वं तच्च मूर्छाऽभावात , तदुक्तं;-'जंपि-वत्थं व पायं वा, कंबलं पायपुच्छणं । तंपि संजमलजट्ठा धारंति परिहरंति य ॥१॥ न सो परिग्गहो
05552059-卐!
->y
॥८४॥