________________
z
>
स्थापित किञ्चिदस्थण्डिले, एवं भव्यात्मना गुप्तेन भवितव्यम् ।
एताः पञ्चसमितयः तिस्रो गुप्तयश्च जैनेन्द्रप्रवचने प्रवचनमातृत्त्वेन प्रख्याप्यन्ते प्रवचनोपनिषद्वेदिभिः, यथा माता पुत्रं प्रसूते, सर्वोपद्रवनिवारणेन पोषणेन च वृद्धिनयनपूर्वकं परिपालनं पुत्रस्य प्रकुरुते, पुत्रस्य मलक्लिन्नवपुः क्षालयति च तद्वदेताः प्रवचनमातरः साधूनां चारित्रगात्रं प्रसुवते, जनितं चारित्रगात्रं उपद्रवनिवारणेन पोषणेन च वृद्धिं नयन्ति अतिचारमलिनं च गात्रं संशोधयन्ति च, तथाचाहुहेमचन्द्रसूरिपादाः,-"एताश्चारित्रगात्रस्य जननात् परिपालनात् संशोधनाच साधूनां मातरोष्टौ प्रकीर्तिताः" ॥१॥ २६ ॥ - अथ परीषहाः;खुहा पिवासासीउहूं, दंसाऽचेलाऽरइथिओ। चरिया निसीहिया सेज्जा,अकोस वह जायणा ॥२७॥ अलाभरोगतणफासा, मलसक्कारपरीसहा। पएणा अण्णाण सम्मत्तं, ई बावसिं परीसहा ॥ २८॥
टीका;-ननु 'परीसह ' इति कः पदार्थः ? उच्यते, परिसह्यत इति परीषहः " कृत्यल्युटो बहुलम्" इतिकरणाधिकरणाभ्यामन्यत्रापि कर्मणि घ प्रत्ययः, किमर्थश्च परिसरात इति जिज्ञासायां तत्त्वार्थश्रद्धानादिलक्षणानिवृतेर्मार्गान् मा प्रच्योष्महि इति ज्ञानावरणादिकर्मक्षपणार्थश्च सिद्धिप्रस्थानप्राप्तिकारणहेतवः परिषोढव्या द्रव्यक्षेत्रकालभावापेक्षयेत्यवगन्तव्यम् । उक्तश्चोत्तराध्ययनद्वितीयाऽध्ययने-“सुअं मे आउसंतेणं भगवया एव मक्खाय, इह खलु बावीसं परीसहा
-
卐卐卐卐zyy-जर
<
>