________________
z
संवरतत्त्वे
>
काय
भीनवतत्त्व सुमङ्गलाटीकायां॥८३॥
<
गुप्तिः ॥
>卐
अथ कायगुप्तिः–देवमनुजतिर्यकृतोपसर्गपरीषहप्रसङ्गेषु अथवोपसर्गपरीषहाऽभावेऽपि साधोः शरीरनिरपेक्षतालक्षण-| स्त्यागः योगनिरोधं कुर्वतः केवलिनः सर्वथा शरीरचेष्टापरिहारो वा कायगुप्तिर्निगद्यते । निशाप्रथमयामेऽतिक्रान्ते गुरूनापृच्छय प्रमाणयुक्तायां वसतौ संवीक्ष्य प्रमृज्य च भूमि संस्तरणोत्तरपट्टकद्वयचीवराऽऽत्मकं संस्तारकमास्तीर्य ऊर्ध्वमधश्च कार्य सपादं मुखवस्विकारजोहरणाभ्यां प्रमृज्य अनुज्ञापितसंस्तारकाऽवस्थानः पठितपञ्चनमस्कारसामायिकसूत्रः कृतवामबाहूपधान आकुञ्चितजानुकः कुक्कुटीवद्वियति प्रसारितजङ्घो घा प्रमार्जितक्षोणीतलन्यस्तचरणो वा भूयः संकोचसमये प्रमार्जितसंदंशक उद्वर्तनाकाले च मुखवस्त्रिकाप्रमृष्टकायो नात्यन्ततीव्रनिद्रोऽन्यत्रग्लानाऽध्वश्रान्तवृद्धादेः रात्रावेव न दिवा आगमोक्तं निद्राकालं यावत शयीत । आसनं यत्र प्रदेशे चिकीर्पितं तं चक्षुषा निरीक्ष्य प्रमृज्य च रजोहरणेन बहिर्निषद्यामास्तीर्योपविशेत , उपविष्टोऽपि आकुञ्चनप्रसारणादि तथैव कुर्वीत वर्षादिषु च पीठफलकादिपूक्तयैव सामाचार्योपविशेत् । दृण्डाद्युपकरणविषये ये निक्षेपाऽऽदाने ते अपि प्रत्यवेक्ष्य प्रमृज्य च विधेये । आवश्यकप्रयोजनवतः साधोः पुरस्ताद्युगमात्रप्रदेशसन्निवेशितदृष्टेरप्रमत्तस्य त्रसस्थावरभूतानि संरक्षतोऽत्वरया पदन्याससमाचरतो यत् प्रशस्तं गमनं, प्रत्यवेक्षितप्रमार्जितप्रदेशविषयमूवस्थितिलक्षणमवष्टम्भादिस्थानं, एतासु पूर्ववर्णितासु शयनाऽऽसनादिचेष्टासु यः स्वच्छन्दचेष्टापरीहारः सा अपरा कायगुप्तिः, उक्तञ्च; "शयनाऽऽसननिक्षेपाऽऽदानचङ्कमणेषु च । स्थानेषु चेष्टानियमः कायगुप्तिस्तु सा परा"॥१॥ उदाहरणञ्चास्याम्-अध्वप्रपन्नकः साधुः आवासिते सार्थे न लभते कचिदपि स्थण्डिलं, कथमपि एकः पादो प्रतिष्ठति एतावन्मात्रं स्थण्डिलं लब्धं तत्र स्थितेकपादः सवों रात्रि तत्र स्थितः, न
-
>卐
-
<9