________________
।
ycs.
>
>卐
>
एवं मनोगुप्तिः कर्त्तव्या। ___ अथ वाग्गुप्तिः–मुखनयनभ्रूविकारामुल्याच्छोटनादिकानां संज्ञानामर्थसूचिकानां चेष्टानां लोष्ठोत्क्षेपहुंकारप्रभृतीनां निखिलानामपि प्रवृत्तीनां परित्यागपूर्वकं यन्मौनं सा वाग्गुप्तिः। संज्ञादिना हि प्रयोजनं सूचयतो मौनं निष्फलमेवेत्येका वाग्गुप्तिः । वाचनपृच्छनपृष्टव्याकरणादिषु लोकाऽऽगमविरोधेन मुखवस्त्रिकाच्छादितवक्त्रस्य भाषमाणस्यापि यद् वानियन्त्रणं सा द्वितीया वाग्गुप्तिः । आभ्यां भेदाभ्यां वाग्गुप्ते सर्वथा वाइनिरोधः सम्यग् भाषणं च प्रतिपादितं भवति, भाषासमितौ तु सम्यग् वाक्प्रवृत्तिरेवेति वाग्गुप्तिभाषासमित्योर्मेदः ॥ आह च:-" समिओ नियमा गुत्तो गुत्तो समियत्तणमि भयणिजो । कुसलवयमुइरंतो जं वइगुत्तो वि समिओ वि"॥१॥ वाग्गुप्त्यां दृष्टान्तः–केचन साधवः स्वजनान् प्रतिबोधयितुं गच्छन्तः पथि चौरैर्गृहीताः, साधून् दृष्ट्वा चौराधिपतिना कश्चिदन्यं मा चीकथ इति विमोचिताः अग्रे चलन्ति, स्वजना अपि विवाहादिकार्याथं ग्रामान्तरं ब्रजन्तः सम्मुखं मिलिताः, ततस्ते साधवः स्वजनैः सह प्रतिनिवृत्ताः, पुनः पथि चौरः स्वजना लुण्टिताः, पूर्वमुक्तान् साधन दृष्ट्वा परस्परं कथयन्ति, इमे त एव साधवो ये अस्माभिर्मुक्ताः, तेषां वचनं श्रुत्वा स्वजनाः साधून आहुः, यदि भवद्भिः पश्यतोहरा दृष्टास्तदा कथं वयं न चोधिताः इत्युक्त्वा च्छुरिकां गृहीचा स्वस्तनौ कर्त्तयितुमारन्धा तेषां साधूनां जननी ' कथं स्तनौ छिनत्सि' इति चौराधिपेन पृष्टा उवाच-एष साधुर्मया दुर्जन्मजातो यतो दृष्टमष्यनिष्टमस्मान् न ब्रवीति, तदा साधवः साधुधर्म प्ररूपयन्ति, ततः स्तेनैरपि सवेः सार्थों मुक्तः, एवं वाग्गुप्तिः कार्या ॥
->
>
>9
>