________________
श्रीनवतच-A
संवरतत्त्वे मनोगुप्तिः॥
सुमङ्गलाटीकायां॥८२॥
35759--
यदाहा-" पडिलेहणं कुणतो मिहो कहं कुणइ जणवयकहं वा। देइ पच्चक्खाणं वाएइ सयं पडिच्छइ वा ॥१॥ पुढवि आउक्काए तेऊवाऊ वणस्सइतसाणं । पडिलेहणा पमत्तो छण्हपि विराहगो भणिओ ॥२॥ संवीक्षित-प्रतिलिखितभूमौ यदाददीत स्थापयेद्वा तदादाननिक्षेपसमितिरित्यर्थः, भीमो भीमसेन इति न्यायादादानसमितिरपि ॥
अधुनोत्सर्गसमितिः-स्थडिले स्थावरजङ्गमजन्तुजातवर्जिते निरीक्ष्य प्रमृज्य च मृत्रपुरीपादीनामुत्सर्ग उत्सर्गसमितिः, मुखनासिकासश्चारी कफः, मूत्रं, मल:, अन्यदपि परिष्ठापनायोग्यं वस्त्रपात्रभक्तपानादि तत्त्रसस्थावर जन्तुविवर्जिते जगतीतले उपयोगपूर्वकं साधुर्यदुत्सृजेत् सोत्सर्गसमितिः । उक्तञ्च;-“कफमूत्रमलप्रायं निर्जन्तुजगतीतले । यत्नाद्यदुत्सृजेत् साधुः सोत्सर्गसमितिर्भवेत्" ॥१॥ अस्सामुदाहरणं धर्मरुचेरनगारस्य प्रसिद्धम् । एवं साधोर्यतमानस्याऽप्रमत्तयोगस्य समितस्य च सतो मिथ्यात्वाऽविरतिप्रत्ययं कर्म निरुद्धं भवति ॥
अथ गुप्तित्रिकमध्ये मनोगुप्तिमाह;-इह मनोगुप्तिस्त्रिधा-आर्तध्यानरौद्रध्यानानुवन्धिकल्पनाजालवियोगः प्रथमा, शास्त्रानुसारिणी परलोकसाधिका धर्मध्यानानुबन्धिनी माध्यस्थ्यपरिणतिर्द्वितीया, कुशलाऽकुशलमनोवृत्तिनिरोधेन योगनिरोधावस्थाभाविन्यात्मारामता तृतीया । मनोगुप्यामुदाहरणं-जिनदासश्रावकः श्रेष्ठिसुतः, स यानशालायां सर्वरात्रिकी प्रतिमा प्रतिपन्नः, अल्द्रामिका तस्य भार्या कीलकयुक्तं पर्यवं गृहीचा तत्राऽऽयाता सती तस्यैव पादस्योपरि मञ्चकपादं स्थापयित्वा केनचिहुष्टजारेण सहाऽनाचारमाचरन्ती चिरकालं तत्र स्थिता, कीलकयुक्तेन मश्चकपादेन जिनदासस्य पादो विद्धः, विपुलश्च शोणितं निसृतं तथापि तां वेदनां सम्यगध्यासयति, न च व्यलीकं दृष्ट्वाऽपि निश्चलमनसस्तस्य ध्याने मनोदुष्कृतं समुत्पन्नम् ।
0593979054
॥८२॥