SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ z > < > ताऽहारं भोक्तुमुद्यतेन तेन श्रुतमात्रे रभसोच्थाय भणितं केन कार्यमिति ? अभ्यागतःस कृत्रिमश्रमणो ब्रवीति-पानकद्रव्यप्रयोजनं विद्यते, पानका) निर्गतेऽस्मिन् स मायाविदेवश्रमणः सर्वत्राऽनेषणां प्रकुरुते । पश्चाल्लब्धं प्रासुकजलं, अनुकम्पया त्वरित गतः सोऽतिसारग्रस्तेन परुषनिष्ठुरवाक्यैराक्रुष्टः, 'हे मन्दभाग्य ! वृथैव त्वं वैयावृत्त्यकरोऽहमिति स्वं ख्यापयसि, अन्यथा कथं भुक्तलोलुपस्त्वमेतावता विलम्बेन समायातः, स नन्दिषेणस्तां परुषगिरं पीयूषमिव मन्यमानः तस्य चरणगतः क्षमयति । अशुचिमललिप्तं तस्य वपुः प्रक्षाल्य शरीरस्वास्थ्याय वसतिमागन्तुमुक्ते सति तेनोक्तम् 'नाऽहं शक्नोमि ब्रजितुम्' तदा नन्दिषेणेन पृष्ठावारोहणार्थमुक्ते आरूढोऽयं श्रमणशठस्तस्य देहस्योपरिष्टाद् विष्ठां कुरुते परमामशुचिदुर्गन्धां विकुरुते ‘धिगूमण्डित' इत्यादिकां परुषां च गिरं संगिरते, सोऽपि क्षमानिधानो मुनिन गणयति परुषगिरं नाऽपि दूषयति तं गन्धं केवलं चन्दनमिव मन्यमानः पौनःपुन्येन क्षामयन् कथञ्चाऽस्य साधोः समाधिस्स्यादिति चिन्तापरो बभूव । एवं बहुविधप्रकारैरपि यदा क्षोभयितुं न शक्तौ तदा प्रत्यक्षीभूय पुनः पुनरभिष्टुवन्तौ स्वस्थानं जग्मतुः, गुरुभिरपि स नन्दिषेणो धन्य इति स्तुतः । यथा तेन नैवोल्लवितैषणा तथैव एषणायां यतिभिर्यतितव्यम् । अथाऽऽदाननिक्षेपसमितिं भावयति;-रजोहरणपात्रचीवरादीनां पीठफलकादीनाञ्चाऽऽवश्यकाऽर्थ निरीक्ष्य प्रमृज्य चाऽदानं निक्षेपणमिति आदाननिक्षेपणासमितिः । रजोहरणासनवसनपात्रफलकप्रमुखः पूर्वोक्तश्चतुर्दशविधो द्वादशविधः पञ्चविंशतिविधो वा क्रमशः स्थविरकल्पि-जिनकल्पि-आर्यिकायोग्यो वा निखिलोऽप्युपधिश्चक्षुषा संवीक्ष्य रजोहरणादिना उपयोगपूर्वकं प्रतिलिख्योपभोक्तव्यः, यदि उपयोगाऽभावो दुष्टोपयोगो वा भवेत् तदा सम्यक् प्रतिलेखना न स्यात् , 09425250)卐 - -3 <卐 >;
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy