________________
z卐卐>卐
अथ साधुप्रभवा उत्पादनादोषास्ते चाऽऽमी:-बालस्य क्षीरमजनमण्डनक्रीडनाङ्कारोपणकर्मकारिण्यः पश्च धात्र्य, एतासां कर्म भिक्षार्थ कुतो मुनेर्धात्रीपिण्डः १। मिथः सन्देशकथनं दतीत्वं तत्कुव्वतो भिक्षार्थ दूतीपिण्ड: २। अतीताऽनागतवर्तमानकालेषु लाभाऽलाभादिकथनं निमित्तं तद्भिक्षार्थ कुर्वतो निमित्तपिण्डः ३ । जातिकुलगणकम्मेशिल्पादिप्रधानेभ्य आत्मनस्तत्तद्गुणत्वाऽऽरोपणं भिक्षार्थमाजीवपिण्ड: ४ । श्रमणब्राह्मणक्षपणाऽतिथिश्वानादिभक्तानां पुरतः पिण्डार्थमात्मानं तत्तद्भक्तं दर्शयतो वनीपकपिण्डः ५ । वमनविरेचनबस्तिकादिकारयतो वैद्यभैषज्यादि सूचयतो वा पिण्डार्थ चिकित्सापिण्डः ६ । विद्यातपःप्रभावज्ञापनं राजपूजादिख्यापनं क्रोधफलदर्शनं वा भिक्षार्थ कुर्व्वतः क्रोधपिण्डः ७ । लब्धिप्रशंसोत्तानस्य परेणोत्साहितस्यावमतस्य वा गृहस्थाभिमानमुत्पादयतो मानपिण्डः ८ । नानावेषभाषापरिवर्तनं भिक्षार्थ कुर्वतो मायापिण्डः ९। अतिलोभाद्भिक्षार्थ पर्यटतो लोभपिण्डः १० । पूर्वसंस्तवं जननीजनकादिद्वारेण पश्चात्संस्तवं श्वश्रूश्वशुरादिद्वारेणाऽऽत्मपरिचयाऽनुरूपं सम्बन्ध भिक्षार्थ घटयतः पूर्वपश्चात्संस्तवपिण्डः ११ । विद्यां मन्त्रं चूर्ण योगं च भिक्षार्थ प्रयुञ्जानस्य चत्वारो विद्यादिपिण्डाः १२-१३-१४-१५। (मन्त्रजापहोमादिसाध्या स्त्रीदेवताधिष्ठाना वा विद्या, पाठमात्रप्रसिद्धः पुरुषाधिष्ठानो वा मन्त्रः, चूर्णानि नयनाञ्जनादीन्यन्त नादिफलानि, पादप्रलेपादयः सौभाग्यदौर्भाग्यकरा योगाः।) गर्भस्तम्भगर्भाधानप्रसवस्नपनकमूलरक्षाबन्धनादि भिक्षार्थ कुव्वतो मूलपिण्डः १६॥ . गृहमेधिसाधूभयप्रभवा एषणादोषा दश, तद्यथा-आधाकम्मिकादिशङ्काकलुषितो यदन्नाद्यादत्ते तच्छङ्कितं यं च दोषं शंकते तमापद्यते १ । पृथिव्युदकवनस्पतिभिः सचित्तैरचित्तैरपि मध्वादिभिर्गहितैराश्लिष्टं यदनादि तन्प्रक्षितम् २ । पृथि
im 50499290
-卐
->卐र
पर