SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ 59 संवरतत्त्वे एषणा श्रीनवतत्त्व सुमङ्गलाटीकायां॥८ ॥ समितिः॥ zyyyyy-g>जर दशैषणादोषाः शङ्कितादयः ॥ एते च संक्षेपतो लिख्यन्ते-आधाय विकल्प्य यति मनसि कृत्वा सचित्तस्याऽचित्तीकरणमचित्तस्य वा पिाको निरुक्तादाधाकर्म॥१॥ उद्देशः साध्वर्थ संकल्पःस प्रयोजनमस्य औदेशिकं यत्पूर्वकृतमोदनमोदकक्षोदादि तत्साधूद्देशेन दध्यादिना गुडपाकेन च संस्कुर्वतो भवति ॥२॥ आधार्मिकावयवसंमिश्रं शुद्धमपि यत्तत्पूतिकर्म शुचिद्रव्यमिवाऽशुचिद्रव्यमिश्रितम् ।। ३॥ यदात्मार्थ साध्वथं चादित एव मिश्रं पच्यते तन्मिश्रम् ॥ ४॥ साधुयाचितस्य क्षीरादेः पृथकृत्य स्वभाजने स्थापनं स्थापना ॥ ५॥ कालान्तरे भाविनो विवाहादेरिदानीं सन्निहिताः साधवः सन्ति तेषामत्युपयोगे भवत्विति बुद्ध्या इदानीमेव करणं समयपरिभाषया प्राभृतिका, सन्निकृष्टस्य विवाहादेः कालान्तरे साधुसमागमनं सश्चिन्त्योत्कर्षणं ( विलम्बन करणं) वा ॥६॥ यदन्धकारव्यवस्थितस्य द्रव्यस्य वह्निप्रदीपमण्यादिना भित्त्यपनयनेन वा बहिर्निकास्य द्रव्यधारणेन वा प्रगटकरणं तत्प्रादुष्करणम् । ७। यत्साध्वर्थ मूल्येन क्रीयते तत्क्रीतम् । ८। यत्साध्वर्थमन्नादि उद्धारके गृहीत्वा दीयते तत्प्रामित्यकम् । ९ । स्वद्रव्यमर्पयित्वा परद्रव्यं तत्सदृशं गृहीचा यद्दीयते तत्परिवर्तितम् । १०। गृहग्रामादेः साध्वथं यदानीतं तदभ्याहृतम् । ११ । कुतुपादिस्थस्य घृतादेर्दानार्थ यत् मृत्तिकाद्यपनयनं तदुद्भिन्नम् । १२। यदुपरिभूमिकातः शिक्यादेर्भूमिगृहाद्वा आकृष्य साधुभ्यो दानं तन्मालापहृतम् । १३ । यदाच्छिद्य परकीयं हठात् गृहीत्वा स्वामी प्रभुश्चौरो वा ददाति तदाच्छेद्यम् । १४ । यद् गोष्ठीभक्तादि सर्वैरदत्तमननुमतं वा एकः कश्चित् साधुभ्यो ददाति तदनिसृष्टम् । १५ । स्वार्थमधिश्रयणे सति साधुसमागमश्रवणात्तदर्थ पुनर्यो धान्यादिवापः सोऽध्यवपूरकः । १६ । एते पोडशोद्गमदोषा गृहस्थप्रभवाः॥ 'EZE09 ॥८ ॥ -ye
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy