SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ <> Z ए A V T A A कज्जावडियं अगव्वियमतुच्छं । पुव्विं मइकलियं भणंति जं धम्मसंजुत्तं ॥ १ ॥ जाय सच्चा न वत्तवा सच्चा मोसा य जा मुसा । जाय बुद्धेहिं णाण्णा ण तं भासेज पन्नवं ।। १ ।। भाषासमित्यां दृष्टान्तः कश्चिन्निर्ग्रन्थः साधुः भिक्षार्थं नगररोधे सति बहिः कटके हिण्डमानः केनचित् पृष्टः कियन्तोऽश्वा हस्तिनस्तथा निचयो दारुधान्यादीनाम् ? निर्विण्णा अनिर्विण्णा नागरिका इति ? इदं ब्रूत यूयम्, समितः स आह-स्वाध्याय ध्यानयोगव्याक्षिप्ता वयमिति न जानीमः पुनः पृष्टः, हिण्डमाना नैव प्रेक्षध्वम् ? नैव श्रुणुथ कथं ? तदा ब्रवीति - " बहु सुणेइ कन्नेहिं बहु अच्छीहिं पिच्छइ । न य दिङ्कं सुयं सवं भिक्खू अक्खाउमरिहई " ॥ १ ॥ अथैषणासमितिः- एषणासमितिर्नाम गोचरगतेन मुनिना सम्यगुपयुक्तेन नवकोटीपरिशुद्धं ग्राह्यम्, अथवा अन्नपानरजोहरणपात्रचीवरादीनां धर्म्मसाधनानामाश्रयस्य चोद्गमोत्पादनैषणादोषवर्जनमेषणासमितिः, अन्नमशनखाद्यस्वाद्यभेदं, पानमारनालतन्दुलक्षालनादि, तथा रजोहरणमुखवसनचोलपट्टकादिचीवरपात्रप्रमुखः स्थविरकल्पयोग्यश्चतुर्दशविधो जिनकल्पिकयोग्यश्च द्वादशविधः औधिक उपधिः, आर्यिकायोरपश्च पञ्चविंशतिविधोऽप्युपधिरुद्गमादिदोषरहितः साक्षात् पारम्पर्येण वा श्रुतचरणधर्म्मसाधकत्वेन ग्राह्यः, नहि औधिकरजोहरणाद्यन्तरेण औपग्रहिकपीठफलकाद्यन्तरेण च वर्षासु हेमन्तग्रीष्मयोरपि जलकणिकाकूलायामनूपभूमौ महाव्रतसंरक्षणं कर्त्तुं शक्यम्, नहि पात्राद्यन्तरेण च महाव्रतसंरक्षणं कर्त्तुं क्षमम् । आश्रयः शय्या वसतिरिति पर्यायाः, सापि उद्गमादिदोषरहितैव परिभोग्या, उक्तञ्चः- “ उत्पादनोद्गमैषण- धूमाङ्गारप्रमाणकारणतः । संयोजनाच्च पिंड शोधयतामेषणासमितिः " ॥ १ ॥ तत्र षोडशाssधाकम्र्म्मादय उद्गमदोषाः, षोडशैव धात्र्यादय उत्पादनादोषाः, M
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy