SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ > श्रीनवतत्त्वसुमङ्गलाटीकायां संवरतत्त्वे भाषासमितिः॥ ॥७९॥ - -) यदाह-" उच्चालियम्मि पाए, इरियासमियस्स संकमट्ठाए । वावजेज कुलिंगी मरिज तं जोगमासज्ज ॥१॥ न ये तस्स तन्निमित्तो बंधो सुहुमोवि देसिओ समए । अणवजो उवओगेण सबभावेण सो जम्हा ।। २॥ तथा-जिअदु व मरदु व जीवो अजदाचारस्स निच्छओ हिंसा । पयदस्स णस्थिबंधो हिंसामित्तेण समिदस्स" ॥३॥ईर्यासमित्यामुदाहरणं यथा-एकः साधुरीर्यासमित्या युक्तः, तस्य प्रभावात् शक्रस्यासनं चलितं, शक्रकृतां प्रशंसां सोढुमसमर्थः कश्चिन्मिथ्यादृष्टिदेवस्तत्रागत्य तं साधुमुपद्रोतुं परितो मण्डूकिका विकुरुते, पृष्ठतश्च हस्तिनं विकुरुते, तथापि स साधुर्गतिं न भिनत्ति, हस्तिनोत्क्षिप्य पातितोऽपि शरीरमस्पृहयमाणः स्वपातजन्यमण्डूकिकाविराधनार्थ पश्चात्तापं विधत्त इति । अथ भाषासमितिः -हितमिताऽसंदिग्धाऽनवद्यार्थनियतभाषणं भाषासमितिः, आत्मने परस्मै च हितमायत्यामुपकारक स्वल्पमपि बहुप्रयोजनसाधकमर्थवर्णप्रतिपत्तौ न संदेहकारि वाक्यशुद्ध्यध्ययनप्रतिपादितधूर्त्तकामुकक्रव्यादचौरचार्वाकादिभाषितलक्षणदोषवर्जितं मुखवसनाच्छादिताऽऽस्यस्य यद् भाषणं सा भाषासमितिरित्यर्थः ॥ आह चा-त्यक्ताऽनृतादिदोष सत्यमसत्याऽनृतं च निरवद्यम् । सूत्रानुयायि वदतो भाषासमितिर्भवति साधोः॥१॥ कलिकालसर्वज्ञैरपि प्रत्यपादि-अवद्यत्यागतः सर्वजनीनं मितभाषणं । प्रिया वाचयमानां सा भाषासमितिरुच्यते ॥१॥ तथा च सिद्धान्ते-महुरं निउणं थोवं १ उच्चालिते पादे ईयासमितस्य संक्रमार्थम् । व्यापद्येत कुलिङ्गी म्रियेत तं योगमासाद्य ॥१॥ न च तस्य तन्निमित्तो बंधः सूक्ष्मोऽपि दर्शितस्समये। अनवद्य उपयोगेन सर्वभावेन स यस्मात् ॥ २ ॥ जीवतु वा म्रियतां वा जीबोऽसदाचारस्य निश्चयतो हिंसा । प्रयतस्य नास्ति बन्धो हिंसामात्रेण समितस्य ॥ ३ ॥ ) 095卐ES卐z卐0卐卐y - ) ॥७९॥ >y
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy