SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ zEEEEEEK! तद्यथा-ईर्यासमितिः, भाषांसमितिः, एषणांसमितिः, 'पदैकदेशात्पदसमुदायस्यापि ग्रहणम् ' इत्यथवा 'भीमो भीमसेन' इति न्यायेन गाथान्तर्वादानशब्देन आदाननिक्षेपणासमितिर्लाह्या, उत्सर्गसमितिः, तथा मनोगुप्तिर्वचनंगुप्तिः कार्यगुप्तिरित्यष्टौ प्रवचनमातर इति गाथार्थः, ॥ व्यासार्थस्त्वयम्-तत्र संपूर्वस्य 'इण' गतावित्यस्य क्तिन्प्रत्ययाऽन्तस्य समितिर्भवति, सम् एकीभावेनेतिः समितिः, शोभनैकाग्रपरिणामचेष्टा इत्यर्थः, ईर्यायां समितिरीर्यासमितिः, रथशकटयानवाहनाऽऽक्रान्तेषु मार्गेषु सूर्यरश्मिप्रतापितेषु प्रासुकविविक्तेषु पथिषु युगमात्रदृष्टिना भूत्वा गमनाऽऽगमनं कर्त्तव्यमित्यर्थः, उक्तं चागमे:-"पुरओ जुगमायाए पेहमाणो महीं चरे । वज्जतो बीयहरियाई पाणे य दगमट्टियं ॥ १॥ ओवायं विसमं खाणूं विजलं परिवज्जए । संकमेण न गच्छेजा विजमाणे परक्कमे" ॥२॥ अथवाऽऽगमाऽनुसारिणी गतिरीर्यासमितिः, अयमर्थः; सस्थावरजन्तुजाताऽभयदानदीक्षितस्याऽऽवश्यके प्रयोजने गच्छतो मुनर्जन्तुरक्षानिमित्तं स्वशरीररक्षानिमित्तं च पादाऽग्रादारभ्य युगमात्रक्षेत्र यावनिरीक्ष्य ईरणमीर्या गतिस्तस्यां समितिः शोभनैकाग्रपरिणामचेष्टा ईर्यासमितिः, तथाचोक्तं योगशास्त्रे- लोकातिवाहिते मार्गे चुम्बिते भास्वदंशुभिः । जन्तुरक्षाऽथेमालोक्य गतिरीर्या मता सताम् ॥१॥ एवंविधोपयोगवतो व्रजतो मुनेः कथश्चित्प्राणिवधेऽपि प्राणिवधपापं न भवति, १ पुरतो युगमात्रया प्रेक्षमाणो महीं चरेत् । वर्जयन वीजहरितानि प्राणान् च दकमृत्तिकान् ॥ १ ॥ २ अवपातं विषम स्थाणु विजलं परिवर्जयेत् । संक्रमेण न गच्छेत् विद्यमाने पराक्रमे ॥ २॥ 5424tzs0 १४
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy