SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ Zyg>-卐S-><! नामाश्रवद्वारेणाऽऽदानं तस्य यच्छेदः स द्रव्याणां संवरत्वाद्र्व्यसंवरः, आत्मव्यापारलक्षणानां संसारकारणभूतानां क्रियाणां यस्त्यागः स भावसंवरः। नन्वाश्रवस्य द्विचत्वारिंशद्भेदाः प्रज्ञापिताः, संवरस्य सप्तपञ्चाशद्भेदाः प्रतिपाद्यन्ते, तत्कथं सम्यग् जाघटीति, यत उच्यते 'आश्रवनिरोधस्संवरः' आश्रवश्च च्छिद्राऽऽत्मकः, संवरश्च स्थगनलक्षणः, यावन्ति च्छिद्राणि तावन्त्येव स्थगनानि, ततो द्वयोरप्याश्रवसंवरयोस्तुल्यभेदैर्भवितव्यम् , सत्यम् , संवरस्य ये सप्तपश्चाशद्भेदाः प्ररूपितास्तत्रग्रन्थकर्तुराचायस्य विवक्षैव कारणम् , कतिचिद्भेदानां तत्र तत्राऽन्तर्भावात् । ___अत्राह-यदि सकलाश्रवद्वारस्थगनलक्षणः संवरस्ततः सर्वकर्मानिमित्ताश्रवच्छिद्रसंवुवर्षा कतिपयपुरुषसाध्यैव प्रसजति, अशेषस्य परिस्पंदस्य निराचिकीर्षवादतः समचतुरस्रसंस्थान-वज्रर्षभनाराचसंहननादिभाजामाहितपराक्रमाणां कर्माणि निर्जिजीर्षतां परिपूर्णशक्तिकानां परिस्पंदखभावयोगत्रयनिग्रहः प्रागुपचितकर्मक्षयश्च शक्तिसाध्यः, न पुनरदंयुगीनपुरुषाणां यथोक्तसंवराभावादिति, उच्यते, संवरद्वैविध्ये सति सर्वसंवराऽभावस्सांप्रतिकानां, देशसंवरस्तु सामायिकादिचारित्रवतामपि, सत्यपि परिस्पंदवत्वे विदिततत्त्वानां संसारजलधेरुत्तरितुमभिवाञ्छतां तेषां प्रधानसंवराऽभावेऽपि न्यस्तसमस्तप्रमादस्थानानां देशसंवरस्समस्त्येवेति । यद्यस्मिन् भवे देशसंवरसमाराधनं स्यात्तदाऽमुत्रसर्वसंवराराधनमवश्यमुदयमेष्यति, कर्मक्षयेण महानन्दपदवीप्राप्तिरपि भाविनी, यः कश्चिद्देवानांप्रियो रागद्वेषान्तरारिनिषूदकपारगतप्रवचनविध्वंसको वावकाधुनिक एवं जल्पेत ‘यनास्ति सामायिकादिचारित्रमस्मिन् करालकलिकाले दुःषमाभिधाने ये केचन सर्वविरतिं स्वीकुर्वन्ति न च ते सम्यग्पालयितुं शक्नुवन्ति, केचिच्च शिष्यमोहमुग्धाः स्नेहवशानुदन्तमपि पितृकलत्रप्रभृतिस्वजनादिकमनादृत्य बालानपि मूढमतीन् प्रव्राजयन्ति, बालाच
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy