________________
|z卐卐
3
मीनवतत्त्वमुमङ्गलाटीकायां
संवरतत्त्वे आश्रवरोधहेतवः॥
>
॥७७॥
कषायसंवरः । अयोगाऽऽख्यकेवलिनि सम्पूर्णो योगसंवरः॥३॥
अत्राऽऽह, यदि 'आश्रवनिरोधस्संवर' इत्युक्तं परं केनोपायेनेन्द्रियकषायाऽव्रतयोगक्रियालक्षणानामाश्रवाणामुक्तस्वरूपाणां निरोधः कर्त्तव्यः? उच्यते, तत्तदाश्रवप्रतिपक्षाऽऽसेवनेन संवरस्संजायते, उक्तश्च-"येन येन ह्युपायेन रुध्यते यो य आश्रवः। तस्य तस्य निरोधाय स स योज्यो मनीषिभिः"॥१॥ तचैवम् :-इन्द्रियोन्मादेन कृतोत्सेकान् आपातरम्यत्वेन परिणामदारुणत्वेन च विषसन्निभान् विषयानिन्द्रियजयलक्षणेनाऽखण्डेन संयमेन निराकुर्यात् । क्रोधं प्रतिपक्षभूतया क्षमया, मानं मृदुभावेन, मायां ऋजुत्वेन, लोभं संतोषाऽऽत्मिकयाऽनीहया संवरार्थ कृतोद्यम आत्मा निराकुर्यात् । सावद्ययोगानां त्यागेनाव्रतलक्षणामविरतिं प्रतिकुर्यात् , मनोवाक्कायरक्षणलक्षणाभिस्तिसृभिर्गुप्तिभिर्मनोवाकायव्यापारलक्षणान् योगान् संवृणुयात् , मद्यविषयकषायनिद्राविकथालक्षणं पञ्चविधमथवाऽज्ञानसंशयविपर्ययरागद्वेषस्मृतिभ्रंशधर्माऽनादरयोगदुष्प्रणिधानरूपतयाऽष्टविधं प्रमादं तप्रतिपक्षभूतेनाप्रमादेन साधयेत् । संवरनिमित्तं प्रयत्नवानात्मा संसारसिन्धुमुत्तितीषुमुमुक्षुस्सन् सद्दशेनेन मिथ्यादर्शनं, चेतसः स्थैर्यलक्षणेन धर्मशुक्लध्यानेनाऽऽतरोद्रध्यानं विजयेत । यदवादिषत विचारचतुर्मुखपरनारीसहोदरकुमारपालक्ष्मापालप्रतिबोधककलिकालसर्वज्ञभगवद्धेमचन्द्रमरिपादा योगशास्त्रे;-'क्षमयामृदुभावेन ऋजुत्वेनाऽप्यनीहया । क्रोधं मानं तथा मायां लोभं रुन्ध्याद् यथाक्रमम् ॥ १॥ असंयमकृतोत्सेकान् विषयान् विषसंनिभान् । निराकुर्यादखण्डेन संयमेन महामतिः ॥२॥ तिसृभिगुप्तिभिर्योगान् प्रमादं चाप्रमादतः । सावद्ययोगहानेनाविरतिं चापि साधयेत् ॥ ३॥ सद्दर्शनेन मिथ्यावं शुभस्थैर्येण चेतसः। विजयेतातरौद्रे च संवराथं कृतोद्यमः॥४॥ अयं संवरश्च पुनद्रव्यभावभेदाभ्यां द्विविधः, कर्मापुद्गला
-
>)
॥७७॥
८