SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ zs>--> ननु संवर इति कः पदार्थः ? उच्यते;-यैस्संसारबीजभूतं काष्टकमानूयते समादीयते तेषां कर्मप्रवेशवीथ्यात्मकानां शुभाशुभलक्षणयोगेन्द्रियकषायाव्रतक्रियाणां त्रिपश्चचतुःपञ्चपञ्चविंशतिभेदस्वरूपाणां प्राप्रपश्चितानामाश्रवाणां यो निरोधो निवारणं स्थगनं स संवरः, उक्तश्च श्रीमदर्हत्प्रवचनसंग्रहे तत्त्वार्थाधिगमसूत्रे 'आश्रवनिरोधः संवरः' (अ० ९ सू. १)। स च सर्वदेशभेदाद् द्विविधः, यदा योगादिनिखिलानामाश्रवाणां लिरोधस्तदाऽयोग्यवस्थायां सर्वसंवरः। शेषकाले चरणप्रतिपत्तेरसभ्य देशसंवरपरिणतिभागात्मा भवति, तद्यथा-यदाऽऽत्मा करणत्रिकपूर्वकं सम्यग्दर्शनं संप्रामोति तदा चतुर्थगुणस्थानकादारभ्याऽग्रेतनेषु गुणस्थानकेषु मिथ्यात्वस्योदयापेक्षयाऽभावात् न मिथ्याचनिमित्तः कर्मबन्धः, तस्मान् मिथ्याचप्रतिपक्षभूतसम्यग्दर्शनाऽपेक्षः एकदेशीयः संवर । यदा च चरणप्रतिपत्तिभागात्मा भवति तदा तस्य विरतत्त्वादविरतिहेतुककर्मागमनिरोधेन द्विहेतुको देशसंवरः। यदा प्रमादत्यागेनाऽप्रमत्तो जायत आत्मा तदानीमप्रमत्तगुणस्थानकादारभ्य सम्यग्दर्शनसंयमाप्रमत्ततालक्षणविहेतुको देशसंवरः । यदा च क्षपकश्रेण्यन्तर्गताऽऽत्मा सूक्ष्मसंपरायाऽवस्थायां कषायमोहं समूलकापं निहत्य क्षीणमोहस्थानमवामोति, अथवोपशमश्रेण्यन्तर्गतोऽयं जीवोऽनिवृत्तिबादरादौ चारित्रमोहमुपशमय्य प्रशान्तमोहगुणस्थानकादौ चतुर्हेतुको देशसंवरः, यदा च सयोग्यन्ताऽवस्थायां सूक्ष्मवादरान् त्रिविधान् योगाग्निरुध्य अयोग्यवस्था गच्छत्ययं जीवस्तदा निःशेषाणामप्याश्रवाणां निरोधात् सम्यक्त्वविरतिप्रमादाऽभावचनिष्कषायित्वाऽयोगित्त्वलक्षणः पश्चहेतुकस्सवसंवरः । तथाचोक्तं;-गुणस्थानेषु यो यः स्यात् संवरः स स उच्यते । मिथ्याचाऽनुदयादुत्त-रेषु मिथ्यात्वसंवर: ॥१॥ तथा देशविरत्यादौ स्यादविरति संवरः। अप्रमत्ससंयतादौ प्रमादसंवरो मतः ॥ २॥ प्रशान्तक्षीणमोहादौ भवेत्
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy