________________
zs
श्रीनवतत्त्व सुमङ्गलाटीकायां॥७६॥
संवरतत्त्वे
संवरस्वरूपम्।।
>
<
-5
| परिकलिते विपुलधनधान्यक्रयाणकप्रभृतिव्यापारशतसंकुले कस्मिंश्चिन्महानगरे गच्छदागच्छदनेकशकटघोटकपादसंघट्टनोस्थितपांशुपांशुलचतुष्पथवर्त्यनावृतविविधवातायनवेश्माऽन्तः प्रविशति यथा रजःपुजः, पिहितेषु च द्वारेषु प्रासादस्यान्तधूलिप्रकरेण न प्रविश्यते, सम्मार्जनीशुद्धाऽपगतरजस्त्वात् प्रासादेन च शुद्धेन भूयते, यथा वा स्थगितसर्वद्वारत्त्वान् निरुद्धनीरप्रवेशे कस्मिंश्चिन्महासरसि पानीयं निदाघार्कप्रचण्डांशुभिः शुष्यते, यथा वा नानाविधच्छिद्रशतसंकुलप्रवहणं च्छिद्रप्रविष्टोदकपूरपूरितं निमजत्यन्तर्महोदधौ न च पारयितुं शक्यते प्रवहणोपविष्टजनपरिकरं, यदा च संरुद्धच्छिद्रवानिच्छिद्रं भवति यानपात्रं तदाऽनुकूले मरुति पारावारं पारयति निजाऽवगाहाऽवगाढनरनारीनिकर स्वयमपि सुखेन संतरति, तथा यावत्कालमयं जीवो मिथ्यात्त्वाऽविरतिप्रभृत्याश्रवच्छिद्रसंकुलत्त्वात् प्रतिसमयं समावर्जितकर्मसलिलभारभरितो न तावत्कालं संसारपाथोधिमुल्लङ्घायितुं समर्थो भवति, यदा च निराश्रवत्वेन संरुद्धकर्मनीरो भवत्ययं जीवः प्रागुपात्तं च कम्भिः तपःप्रभृतिना निर्जीयते तदाऽऽश्रवद्वाराणां संवृतच्चान्नूतनकम्र्मोदकाऽनागमेन प्रागुपार्जितस्य च तपःकृशानुना प्रतिक्षणं दंदद्यमानचात् प्रान्ते निष्कर्माऽयमात्मा सिद्धशिलायामच्छस्फटिकाऽऽत्मिकायामक्षय्यसुखभाग भवति, तस्माद्भवार्णवं तितीर्पणा भव्यसंदोहेन प्रत्यहं संवृतेन भवितव्यम् , यावान् संवरस्तावान् कर्मागमस्य रोधः, यावान् रोधस्तावन्मुक्तस्सामीप्यम् ।। उक्तश्च" यथा चतुष्पथस्थस्य बहुद्वारस्य वेश्मनः । अनावृतेषु द्वारेषु रजः प्रविशति ध्रुवम् ॥१॥ प्रविष्टं स्नेहयोगाच तन्मयत्वेन । बध्यते । न विशेन च बध्येत द्वारेषु स्थगितेषु तु ॥ २॥ यथा वा सरसि क्वापि, सर्वैरीिविशेअलम् । कृते रन्ध्रपिधाने तु न स्तोकमपि तद्विशेत ॥ ३ ॥ योगादिष्वाश्रवद्वारेष्वेवं रुद्धषु सर्वतः कर्मद्रव्यप्रवेशो न जीवे संवरशालिनि ॥ ४ ॥
-
>卐
॥ ७६॥