________________
Iz
STE
॥ अथ संवरतत्त्वम् ॥
>-49-3
श्रेयाश्रीसदनं क्षयोपशमजं कल्याणवल्लीघनं । संवेगप्रमुखाऽऽख्यलक्षणभरं मूलं व्रतानां परम् । मोक्षाऽवाप्तिरपार्धपुद्गलपरावर्ताऽऽख्यकालेन च । यस्मात्तं दधतां सुदर्शनवरं भव्या गुणालिङ्गितम् ॥१॥ ____ इदानीमाश्रवप्रतिपक्षभूतं क्रमाऽऽयातं षष्ठं संवरतत्त्वं विवरिषुः सूत्रं गाथाऽऽत्मकं मूलोत्तरभेदप्रतिपादकं ग्रथ्नाति;समिईगुत्तिपरिसह-जइधम्मो भावणा चरित्तपण । पणतिदुवीसदसबार-पंचभएहिं सगवन्ना ॥२५॥
टीका: ईर्याभाषणाऽऽदाननिक्षेपोत्सर्गरूपाः पञ्च समितयः, पापव्यापारेभ्यो मनोवाकायगोपनान्मनोवाकायगुप्तयः, मार्गाऽच्यवननिर्जरार्थं परिषोढव्या वक्ष्यमाणा द्वाविंशतिः परीषहाः, क्षान्त्यादिको दशविधो यतिधर्मः, अनित्याऽऽद्या द्वादशभावनाः, सामायिकाद्यानि पञ्चप्रकाराणि चारित्राणीत्येते क्रमशः पञ्च-त्रि-द्वाविंशति-दश-द्वादश-पश्चमेदैः सप्तपञ्चाशत् संवरस्य मेदा भवन्तीति गाथाऽक्षरार्थः। व्यासार्थस्त्वयम् -अनेकनरनारीपुत्रकलत्रपरिवारसंपत्समलंकृतसप्तभूमिकहालि
७३८॥25059-5<!