________________
iz
आश्रवतत्वे क्रियाः॥
श्रीनवतस्व सुमङ्गलाटीकायां॥७४॥
द्रव्याणां निक्षेपणमनाभोगेन यस्यां सा अनाभोगनिक्षेपजा, अथवाऽनाभोगक्रिया द्विविधा, आदाननिक्षेपानाभोगक्रिया, उत्क्रमणानाभोगक्रिया च, तत्राऽऽदाननिक्षेपानाभोगक्रिया रजोहरणेनाप्रमाय॑ पात्रचीवरादीनामादानं निक्षेपं वा करोति, उत्क्रमणानाभोगक्रिया लङ्घनप्लवनधावनासमीक्ष्यगमनागमनादिका, एषा सकषायाणां ज्ञानावरणीयोदयजन्या, अतो दशमगुणस्थानं यावत् ॥ १९ ॥ अनवकासाप्रत्ययिकी द्विधा, ऐहलौकिकानवकासाप्रत्ययिकी, पारलौकिकानवकासाप्रत्ययिकी, च, तत्र प्रथमा लोकविरुद्धानि चौर्यादीनि करोति यैर्वधबन्धनानि इहैव प्रामोति, परलोकानवकाङ्क्षाप्रत्ययिकी तु हिंसादीनि कर्माणि कुर्वन् परलोकं नावकासते, एषा बादरकषायोदयप्रत्यया नवमगुणस्थानकं यावद् वर्तिनी ॥ २० ॥ प्रयोगक्रिया त्रिविधा, तद्यथा-मनःप्रयोगक्रिया, वाक्प्रयोगक्रिया, कायप्रयोगक्रिया च, तत्र मनःप्रयोगक्रिया आतरौद्रध्यायिनी अनियमितमनस्का इति, वाक्प्रयोगो वाग्योगो यस्तीर्थकरैः सावधादिर्गर्हितस्तं स्वेच्छया भाषते, कायप्रयोगक्रिया कायेन प्रमत्तस्य गमनाऽगमनाकुश्चनप्रसारणादिचेष्टा कायस्य, एषा शुभाऽशुभसावधयोगवतां पश्चमगुणस्थानपर्यन्तवार्तनां भवति, नागेतनगुणस्थानभाविनामिति ॥ २१ । समग्रमुपादानं समुदानं, समुदायोऽष्टकम्मोणि, तेषां ययोपादानं क्रियते सा समुदानक्रिया, सा च द्विधा प्रज्ञप्ता, देशोपघातसमुदानक्रिया, सर्वोपघातसमुदानक्रिया, तत्र देशोपघातेन समुदानक्रिया कश्चित् कस्यचिदिन्द्रियदेशोपघातं करोति, सर्वोपघातसमुदानक्रिया सर्वप्रकारेणेन्द्रियविनाशं करोति, एषा पञ्चमगुणस्थानकं यावद्विद्यते ॥ २२ ॥ प्रेमप्रत्ययिकी द्विविधा, मायानिश्रिता, लोभनिश्रिता च, अथवा तद्वचनमुदाहरति येन परस्य रागो भवति, एषा लोभोदयजन्यच्चाद्दशमगुणस्थानकं यावद्भाविनी ॥ २३ ॥ द्वेपप्रत्ययिकी,
धEEyz卐05-5
॥७४ ।।