SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ N < >' अजीवनैःशस्त्रिकी यथा पाषाणकाण्डादीनि गोफणधनुरादिभिर्निसृज्यन्ते, अथवा गुर्बादीनामेषा एवं;-शिष्ये पुत्रे वा योग्ये सत्यपि तस्य निसर्जनं सा जीवनैःशस्विकी, भिक्षायामेषणीयायां सत्यामपि तस्याः परिष्ठापनं साऽजीवनैःशस्त्रिकी, एषा देशविरतिं यावत् ॥ १५ ॥ स्वाहस्तिकी क्रिया द्विविधा जीवस्वाहस्तिकी अजीवस्वाहस्तिकी च, तत्र जीवस्वाहस्तिकी यजीवेन (सर्पादिना) जीवं मारयति, अजीवस्वाहस्तिकी यथाऽस्यादिभिर्जीवं मारयति, अथवा जीवस्वाहस्तिकी यजीवं स्वहस्तेन ताडयति, अजीवस्वाहस्तिकी अजीवं स्वहस्तेन ताडयति वस्रं पात्रं वा । एषा पञ्चमगुणस्थानकं यावत् ॥ १६ ॥ आज्ञापनिकी क्रिया द्विविधाः-जीवाज्ञापनिकी अजीवाऽऽज्ञापनिकी च,तत्राऽऽद्या-जीवमाज्ञापयतीति जीवाऽऽज्ञापनिकी, अजीवमाज्ञापयतीत्य- | जीवाज्ञापनिकी यथा जादूगराऽऽख्यानाम् , अथवा जीवाऽजीवमेदेनाप्यानयनिकी द्विधा, तत्र जीवस्याऽऽनयने जीवाऽऽनयनिकी, अजीवस्याऽऽनयने अजीवाऽऽनयनिकी एषा पश्चमगुणस्थानं यावत् , न तु चारित्रिणां विद्यते ॥ १७॥ विदारणिकी अपि जीवाज्जीवविषयत्वेन द्विप्रकारा, तत्र जीवं विदारयतीति जीवविदारणिकी, अजीवं विदारयतीत्यजीवविदारणिकी, अथवा जीवमजीवं वाऽऽभाषिकेषु विक्रीणानो द्वैभाषिको वा विदारयति, प्रपञ्चं विधत्त इति भणितं भवति, अथवा जीवं विचारयति असद्भिर्गुणैरीदृशस्तादृशस्त्वमिति, अजीवं वा विप्रतारणबुद्ध्या भणति, ईदृशमेतदिति, निष्कलंकेषु कलङ्कारोपणादिना केषाञ्चिन्मित्रस्थानीयानां गुडवार्ताप्रस्फोटनादिना वा, एषा क्रिया आश्रवरूपवादवश्यं कर्मवन्धविधात्री, बादरकपायोदयाख्यनवमगुणस्थानपर्यन्तवर्तिनी चेयम् ॥१८॥ अनाभोगप्रत्ययिकी क्रिया द्वेधा, अनाभोगाऽऽदानजा, अनाभोगनिक्षेपजा, तत्रानाभोगोऽज्ञानमनुपयोगित्वं वा, आदानं ग्रहणं, निक्षेपणं स्थापनं, तद्ग्रहणमनाभोगेन यस्यां सा अनाभोगाऽऽदानजा, 595 ' - >ye
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy